SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ १६२] [ऋषिदत्ताचरित्रसंग्रहः ॥ ततः स्वर्णरथो भर्त्ता, स्वप्रियाप्रतिबोधकम् । पितृशोकनिवृत्त्यर्थं, वचोऽवोचद् वचस्व्यसौ ॥७२।। तिष्ठ तिष्ठ प्रिये ! माऽश्रुपातमत्यन्तमातनु । किं त्वत्कृतेन दुःखेन, स्वप्राणत्यागकृत्पितुः ॥७३॥ 5 न शोचनीयः स्वपिता, त्वया भङ्गरभाग्यया । भुक्तभोगी महात्यागी, कृतराज्यः कृतव्रतः ॥७४॥ यतः - "ध्वान्तं ध्वस्तं समस्तं, विरहविगमनं, चक्रवाकेषु चक्रे, सङ्कोचं मोचितं द्राग् , वरकमलवनं, धाम लुप्तं ग्रहाणाम् । 10 सम्प्राप्तोऽ? जनेभ्यस्तदनु च निखिला, येन भुक्ता दिनश्रीः, सम्प्रत्यस्तं गतोऽसौ, हतविधिवशतः, शोचनीयो न भानुः" ॥७५॥ [स्रग्धरा ][ ] "मरणं प्रकृतिः शरीरिणां, विकृतिर्जीवितमुच्यते बुधैः । क्षणमप्यवतिष्ठते श्वसन् , यदि जन्तुर्ननु लाभवानसौ" ॥७६॥ [ रघुवंश ८/८७] "सृजति तावदशेषगुणाकरं, पुरुषरत्नमलङ्करणं भुवः । 15 तदपि च क्षणभङ्गिकरोति चे-दहह कष्टमपण्डितता विधेः" ॥७७॥ [ द्रु.वि.][] "यद्भग्नं धनुरीश्वरस्य शिशुना, यज्जामदग्न्यो जितस्त्यक्ता येन गुरोगिरा वसुमती, बद्धो यदम्भोनिधिः । एकैकं दशकन्धरक्षयकृतौ रामस्य किं वर्ण्यते ?, दैवं वर्णय येन, सोऽपि सहसा नीतः कथाशेषताम्" ॥७८॥ [ शा.वि.] [ ] 20 “आवासं परिमाटि वायु, ऋतवः पुष्पोत्करं तन्वते, कीनाशो महिषेण वारि वहते, ब्रह्मा पुरोधाः पुनः ॥ खट्वायां विनियन्त्रिता ग्रहततिनिणेजकः पावकः, चामुण्डास्तलरक्षिका, गणपतिश्चक्रीवतां चारकः" ॥७९॥ [शा.वि.] [ ] "बद्धा येन दिनाधिपप्रभृतयो, मञ्चस्य पादे ग्रहाः, 25 सर्वे येन कृताः कृताञ्जलिपुटाः, शक्रादिदिक्पालकाः । लङ्का यस्य पुरी समुद्रपरिखा, सोऽप्यायुषः संक्षये, कष्टं विष्टपकण्टको दशमुखो दैवाद् गतः पञ्चताम्" ॥८०॥ [शा.वि.][ ] D:\amarata.pm513rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy