________________
ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥]
[१६१ “उत्तम सरिस संग २, ३५ प्रामि (मभरे । न२४२ (?)-२सि२-४स, तिन्नि विप्राभ्या ते ॥६00 (दूध) [ ] मित्र ! भास्वबृहद्भानौ, विविक्षुर्भिक्षुरस्म्यहम् । 'मादृशां जीविताच्श्रेयो मरणं' मन्महे वयम् ॥६१।। नृपोऽवगेवं मा तत्रभवद्भिः क्रियतां ततः । मुनिः कनीमभाषिष्ट, श्रुणु शिक्षां हितावहाम् ॥६२॥ "शुश्रूषयेर्गुरून् देवान् , स्वश्रू-स्वसुर-वल्लभान् । पालयेस्त्वं व्रतं शीलं, स्वपत्नीष्वपि मा कुपः ॥६३।। "मञ्चोत्पाटन-गेहमार्जन-पयःपावित्र्य-चुल्हीक्रियास्थालीक्षालन-धान्यसंस्कृतिविधा गोदोह-तन्मन्थनैः । पाकैस्तत्परिवेषणैस्समुचितैः, पात्रादिपूतिक्लमैः, स्वश्रू-भर्तृ-ननान्दृ-देव-विनयैः कष्टं वधूर्जीवति" ॥६४॥ [शा.वि.] [ ] सुखे दुःखेऽपमाने च, मा भूधर्मपराङ्मुखा । दत्त्वैवमात्मनीनां तां, शिक्षामाश्लिष्य चात्मजाम् ॥६५॥ जामातरं स्वपुत्रीं च, समापृच्छ्यऽऽप्ततापसान् । स्मृत्वा पञ्चनमस्कारं, चतुश्शरणसंश्रितः ॥६६॥ समाराध्य मुनेर्धर्मं, ध्यात्वा श्रीजिनपुङ्गवम् । सत्वांश्च क्षमयित्वा स्राक्, बृहद्भानुं विवेश सः ॥६७।। [त्रिभिः कुलकम्] ऋषिदत्ता चलच्चित्ता, मूर्च्छयन्ती मुहुर्मुहुः । लुठन्ती वसुधापीठे, रुदन्ती करुणस्वरम् ॥६८।। ताताऽभिधानं जल्पन्ती, वदन्ती गद्गदं वचः । ताडयन्ती निजं वक्षो, विलापानतनोदिति ॥६९॥ हा तात ! हा तात ! निस्सीमाऽपत्यवात्सल्यतत्पर ! । अद्याऽहं त्वदृते शोच्या, गतमूलेव कन्दली ॥७०।। दृष्टा सा न मया माता, तात ! माता त्वमेव मे । उभावपप्ततां मेऽद्य, भुवि हस्तौ गते त्वयि ॥७१॥
D:\amarata.pm5\3rd proof