SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ १६०] [ऋषिदत्ताचरित्रसंग्रहः ॥ सकला चन्द्रलेखेव, सुविद्येव सलक्षणा । सदाचारा मरालीव, सद्गुणा चापयष्टिवत् ॥४८॥ सरसीव रसाऽऽपूर्णा, साऽर्था सेवधिवत् सदा । वृत्तवत् सदलङ्कारा, ससत्त्वा गुविणीव सा ॥४९॥ त्वत्सङ्गसमायोगात् , प्रशस्या प्रतिभावताम् । भविष्यति सुनिःशङ्क, दुहिता मे हिताय ते" ॥५०।। यथा- मृगनाभिगतो रेणुरशुभोऽपि शुभो भवेत् । कल्याणं पावकाऽऽश्लेषात् , मौक्तिकं स्वातियोगतः ॥५१॥[ ] मन्त्रमन्त्रितसत्कन्यासूत्रतन्तो व्रजेज्ज्वरः । सुधाबिन्दो विषं नश्येत् , तमस्तोमो दिवामणेः ॥५२॥[] आश्रयवशेन पुंसां, गरिमा लघिमा च जायते सद्यः । वन्ध्ये वन्ध्यसमानाः, करिणो पि हि दर्पणे लघवः ॥५३॥ [आर्या ] [ ] यद् आगमे - "गिरिसय-पप्फसयाणं, सविहिय ! आहरणकारणविहिन्न । 15 वज्जिज्ज सीलविगले, उज्जुयसीले हविज्ज जई"॥५४॥[ आर्या ] [ उप.मा./२२७] "माताऽप्येका पिताऽप्येको, मम च तस्य च पक्षिणः । अहं मुनिभिरानीतः, स च नीतो गवाशनैः" ॥५५॥ [ ] "गवाशनानां स गिरः श्रृणोति, अहं च राजन् ! मुनिपुङ्गवानाम् । प्रत्यक्षमेतद् भवता च दृष्टं, संसर्गजा दोषगुणा भवन्ति ॥५६॥ [ उपजाति ] [ ] 20 "उत्तमजणसंसग्गो, सीलदरिदं पि कुणइ सीलड्ढे । जहा मेरुगिरिविलग्गं तणं पि कणगत्तणमुवेइ ॥५७॥ [ आर्या ] [सं.सि./६४] "किं तेन हेमगिरिणा रजताद्रिणा वा, यावाश्रिता हि तरवस्तरवस्त एव । मन्यामहे मलय-मन्दर एक एव, यत्राऽऽम्र-निम्ब-कुटजा अपि चन्दनानि" ॥५८॥ 1 [व.ति] [भर्तृ.नीति./८०] 25 "सुचिरं पि अच्छमाणो, वेरुलिओ कायमणियउम्मीसो। ___ न उवेइ कायभावं, पाहन्नगुणेण नियएणं ॥५९॥ [ ] १. मन्यामहे मलयमेव, यदाश्रयेण । कङ्कोल-निम्ब-कुटजा अपि चन्दनाः स्युः ॥ [भर्तृहरिशतके/श्लो.८० उत्तरार्धः] D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy