________________
१५८]
[ऋषिदत्ताचरित्रसंग्रहः ॥ तच्चतत्-"द्विधा धान्यं, त्रिधा मांसं, चतुर्धा शाक-गोरसम् ।
घृतं तिलेक्षुलवणं, स्यादष्टादशमं पयः" ॥२३॥ [ ] अवक् कुमारो राजर्षि, स्वामिन् ! मे कुर्वनुग्रहम् । यतोऽद्य क्रियते सार्धं, त्वया भोज्यं मयाऽचिरात् ॥२४॥ प्रत्युक्तं मुनिना वत्स !, प्रमाणं गौरवं तव ।
परं परं मुनीनां च, शुष्ककन्दादि भोजनम् ॥२५॥ उक्तं च-“सर्पाः पिबन्ति पवनं न च दुर्बलास्ते,
शुष्कैस्तृणै र्वनगजा बलिनो भवन्ति । कन्दैः फलैर्मुनिवरा गमयन्ति कालं, संतोष एव पुरुषस्य परं निधानम्" ॥२६॥ [व.ति.] [ ] "तुच्छं भत्तं पाणं, तुच्छा निद्दा य तुच्छआरंभा।
तुच्छा जाण कसाया, ताणं चिय तुच्छसंसारो" ॥२७॥ [ आर्या.][ ] "लवणविहूणा य रसा, चक्खुविहूणा य इंदियग्गामा ।
धम्मो य दयारहिओ, सुक्खं संतोसरहियं नो" ॥२८॥ [ आर्या.] [ ] "निरीहस्य निधानानि, प्रकाशयति काश्यपी ।
अङ्गोपाङ्गानि बालानां, विगोपयति कामिनी" ॥२९॥ [ ] "सन्निधौ निधयस्तस्य, कामगव्यनुगामिनी । अमराः किङ्करायन्ते, सन्तोषो यस्य भूषणम् ॥३०॥ [यो.शा./१७१ ] सुस्वादस्सरस: स्निग्धः, संस्कृतस्सूपकारकैः ।
राजपिण्डस्तु साधूनां, कल्पते नो जिनोक्तितः ॥३१॥ यद् आगमे -"मुइयाइगणो राया, अट्ठविहो तस्स होइ पिंडु त्ति ।
पुरिमेयराण एसो, वायाईहिं पडिकुट्टो" ॥३२॥ [ ] "मुईओ मुद्धऽभिसित्तो, पंचहिं सद्धिं तु भुंजए रज्जं ।
तस्स उवज्जो पिंडो, तव्विवरीयम्मि भयणाओ" ॥३३॥[ ] "ईसरपभिईहिं तहिं, वायाओ खद्धलोहदाराणं । दंसणसंगो गरहा, इयरेसिं न अप्पमायाओ" ॥३४॥ [ ]
15
20
25
१. पृथ्वी।
D:\amarata.pm5\3rd proof