________________
ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥]
[१५७ यतः - "बालस्स माइमरणं, भज्जामरणं च जुव्वणपत्तस्स ।
वुड्डस्स पुत्तमरणं, तिन्नि वि गुरुयाइं दुक्खाई" ॥१०॥[आर्या ] [ ] स्थितो वने प्रियो राजा, निन्दन् प्राक् कर्म दुष्कृतम् । स्वस्वान्तान्तश्चतुःसङ्ख्यान् मासानित्यवाहयत् ॥११।। राज्यत्यागो, वनाऽऽभोगो, गुर्वी पत्नी, सुताजनुः । एकाकित्वं, मृतिः पत्न्याः, 'धिगिदं कर्मचेष्टितम्' ॥१२॥ तदूर्ध्वदैहिकं कृत्वा लालयित्वा तनूद्भवाम् । कष्टं क्रीडादिकैरष्टवर्षीयामतनोत् पिता ॥१३॥ "कमढी न देइ खीरं, न पंखवायं, न कोमलं वयणं । तह वि य वटुंति जिया, पलोइया सोमदिट्ठीए" ॥१४॥ [ आर्या ] [ ] 10 दृष्ट्वा सुरूपां मत्पुत्री, हरिष्यन्ति वनेचराः । विचिन्त्येति मुनिप्रोक्तमदृश्यीकरणाञ्जनम् ॥१५।। जनकः स्थापयामास, स्वपार्वे स्वसुताकृते । तेनाञ्जनेन पुत्रीयमदृश्या भवति क्षणात् ॥१६॥ सोऽस्म्यहं हरिषेणाख्य, इयं सा मम कन्यका । एवंविधा मिथो गोष्ठी, जाता सङ्गतयोस्तयोः ॥१७।। निरीक्षते ततः कन्यां, धन्यां तत्रस्थ एव सः । पुनर्पुनर्मिथोदृष्टिरागरङ्गाऽनुरागिणीम् ॥१८॥ "आकारिङ्गितैर्गत्या, चेष्टया भाषणेन च । तेन वक्त्रविकारेण, ज्ञायतेऽन्तर्गतं मनः ॥१९॥ [अ.सं./३/५१५] 20 तयोरित्याशयं ज्ञात्वा, हरिषेणो मुनीश्वरः । कुमारं प्रत्युवाचैवं, दत्तैषा ते कनी मया ॥२०॥ कुमारोऽवगिदं सत्यं, पूज्यैरादिश्यतेऽत्र यत् । तन्मनः-काय-वाग्शुद्ध्या, प्रतिपन्नं भवद्वचः ॥२१।। तं प्रत्याख्यत् स राजर्षि-र्वत्स ! गच्छ निजेच्छया । त्वं सप्तदशधा भोज्यं, कुरुष्व स्वकसद्मनि ॥२२॥
D:\amarata.pm5\3rd proof