________________
ऋषिदत्ताचरित्रे
तृतीयोल्लासः ॥ इतश्च- कालेन कियता तेन, राज्यमारोपितं सुते ।
त्यक्त्वा राज्यं महाभोगान् , भुक्त्वा मुक्त्वाऽवरोधनम् ॥१॥ समं तपस्वितां भोक्तुं, प्रीतिमत्या नवोढया । राजा वैराग्यमापन्नो, निष्क्रान्तो निजमन्दिरात् ॥२॥ आश्रमं जग्मतू राज-राज्यौ विश्वपतेर्मुनेः । कृत्वा तत्रत्यकृत्यानि, तपस्सेवां च चक्रतुः ॥३॥ ततः प्रीतिमतीपत्न्याः, गर्भः पूर्वसमुद्भूतः । पञ्चमे मासि स प्रादु-र्बभूवाऽदृष्टि(ष्ट)योगतः ॥४॥ ससत्वां ऋषिपत्नी तां, दृष्ट्वा सर्वे तपस्विनः ।
आश्रमं स्थित्यनर्हन्तं, विज्ञायाऽन्यत्र ते गताः ॥५॥ यद् आगमे- [दशवैकालिके] "रन्नो गिहवईणं च, रहस्सा रक्खियाणि य । संकिलेसकरं ठाणं, दूरओ परिवज्जए" ॥६॥ [ द.वै./अ.५/उ.१/१६] सम्पूणैर्नवभिर्मासै, राज्ञी प्रीतिमती सती । सप्तभिर्दिवसैः सार्धेः, सुखेन सुषुवे सुताम् ॥७॥ ऋषीणामाश्रमे जाता ऋषिदत्ता कनी निजा । नाम्ना पितृभ्यां साऽऽख्याता, विख्याता स्वगुणैरभूत् ॥८॥ प्रसूः प्रसूतिरोगाच्च, पञ्चत्वं प्राप साऽन्यदा । ततः सा कर्मणां योगादासीद् दासीव दुःखिनी ॥९॥