SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १५४] [ऋषिदत्ताचरित्रसंग्रहः ॥ हर्षेण हरिषेणस्य, प्रयाणं कुर्वतस्ततः । मुनिः प्रत्युपकाराय, ददौ मन्त्रं विषापहृत्(पहम्) ॥२६०।। यतः- मुरारिनाटकेऽप्युक्तम् - "स्थानेषु शिष्यनिवहैर्विनियुज्यमाना, विद्या गुरुं हि गुणवत्तरमातनोति । ___ आदाय शुकितषु बलाहकविप्रकीर्णैरत्नाकरो भवति वारिभिरम्बुराशिः" ॥२६१॥ [व.ति.] [ ] "वचनं वचनं हि केवलं, प्रतिपत्तिस्तु फलेन विभाव्यते । वचनैरुपचारकोमलैः, फलहीनैर्वद किं प्रयोजनम्" ॥२६२॥[आर्या ] [ ] "तव सम्मतिमेव केवलामधिगन्तु धिगिदं निवेदितम् । 10 ब्रुवते हि फलेन साधवो, ननु कण्ठेन निजोपयोगिताम्" ॥२६३॥ [वैतालीय] [ ] विषापहारिणं मन्त्रं, लात्वा सत्त्वाधिको नृपः । शीघ्रप्रयाणैस्संप्राप्तः, स्वपुरीममरावतीम् ॥२६४।। अन्यदा पर्षदासीनो, हरिषेणो नरेश्वरः । केनचित् पुरुषेणैवं, विज्ञप्तस्सपरिच्छदः ॥२६५।। विलालसी(?)ति धात्रीशो, नगरी मण्डलावतीम् । विद्युत्प्रभा प्रिया कान्ता, प्रभुश्रीः प्रियदर्शनः ॥२६६।। तयोः प्रीतिमती पुत्री, नाम्ना प्रीतिमती सती । प्राणप्रिया वयःप्राप्ता, कलालक्षणपूरिता ॥२६७|| 20 निशायां साऽहिना दष्टा, स्वामिन् ! निष्ठा कुमारिका । तेनाहं विषमन्त्रज्ञं, ज्ञात्वा त्वां समुपागतः ॥२६८।। "यः प्रयुञ्जीत नो विद्वान् , स विद्यामनवद्यकाम् । स गर्हणीयो विज्ञानां, परत्र च भवेज्जडः" ॥२६९॥[ ] विमृश्य सहसाऽप्येवं, दद्यां(?) योजनगामिनीम् । 25 क्रमेलकां समारूह्य, तेन तत्र समागतम् ॥२७०।। विषहन्मन्त्रनीरेण, छण्टिता सा नृपेण च । श्रावितो विषहन्मन्त्रस्तेनाऽभूल्लब्धचेतना ॥२७१।। D:lamarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy