SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥ ] ज्ञात्वेति धर्ममाहात्म्यं, विशेषात् पितृभक्तकाः । अर्चाऽर्चनादिप्रवणाः, जाताः परमनैष्ठिकाः ॥२४७॥ अत्राऽमुत्र विभाव्यैवं, धर्ममाहात्म्यमद्भुतम् । जना मिथ्यादृशोऽन्येऽपि, जिनधर्मजुषोऽभवन् ॥२४८॥ [ इति दानप्रभावे धनदकथा ॥ ] श्रुत्वैवं धनदाऽऽख्यानं, विश्वभूतेरनुज्ञया । पुण्यप्रसादात् प्रासादं, कारयामासिवान् नृपः ॥२४९॥ स्थापिता प्रतिमा प्रौढा, प्रकृष्टा प्रथमप्रभोः । हर्षेण हरिषेणेनाऽप्रतिमा प्रतिभावता || २५०॥ बहुद्रव्यव्ययेनाऽऽसौ, विधाप्य जिनमन्दिरम् । सुधादेश्यं ततस्तस्योपदेशम श्रृणोदिति ॥२५१॥ 44 'गंध - ऽक्खय- कुसुमेहिं, जल-फल-नेविज्ज-धूव - दीवेहिं । अट्ठविहा जिणपूया, देइ सिवं अट्ठभवमज्झे" ॥ २५२॥ [ आर्या ][ ] “गन्धचूर्णं प्रभोर्मूर्ध्नि, क्षिपतां श्रीर्वशीभवेत् । जिनाग्रे ढौकिताऽखण्डा - ऽक्षतैः स्वात्माऽक्षतस्सुखैः ॥२५३॥ यः सुमैः पूजयेद् देवं, पूज्यस्य स्यात् प्रसिद्धिभाक् । जिनाग्रे ढौकिते नीरे, तत्पिपासा प्रलीयते ॥ २५४॥ पुरोऽर्हतः फले दत्ते, पुमान् स्याद् बोधिबीजभाक् । कृते जिनस्य नैवेद्ये, कर्ताऽऽहारसुखं भजेत् ॥२५५॥ धूपधूमविधातुश्च, दुष्कर्म द्राग् ज्वलयत्यहो । जिनाग्रे विहिते दीपे, प्रत्यूषे तत् तमो वज्रेत् ॥ २५६॥ एवमष्टविधां पूजां यः, कुर्यादर्हतां मुदा । अष्टकर्माणि तस्याऽऽशु विलीयन्ते न संशयः ” ॥२५७॥ भूभर्तेतन्निशम्यैवं विश्वभूतिमुनेर्वचः । गन्धाऽक्षतप्रदीपाद्यैः, पूजयेत् प्रभुमादिमम् ॥२५८॥ एवं सुकृतकृत्यैः स्वं, जनुः कृत्वा फलेग्रहि | रङ्गाद् गन्तुमना द्रङ्गं, मासं स्थित्वा ह्यभूदयम् ॥२५९॥ [ १५३ D:\amarata.pm5\3rd proof 5 10 15 20 25
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy