________________
१५०]
[ऋषिदत्ताचरित्रसंग्रहः ॥ इत्याऽऽदिष्टे मुनिप्रष्टैः श्रेष्ठीशस्तानबम्भणीत् । साम्प्रतं साम्प्रतं कृत्यं, ममाऽदिशत संयताः ! ॥२१२॥ रहस्तमार्यमाकार्य लाभ-हानी विचार्यते ।
कपर्दियक्षाऽऽकृष्टीष्ट-देवमन्त्रमशिक्षयत् ॥२१३।। 5 कृत्स्नकृष्णचतुर्दश्या, मध्यरात्रेः धनः स्वयम् ।
मन्त्रमाराधयामास, तपोविधिविधानतः ॥२१४।। यदुक्तम् - [ सिन्दुरप्रकरे] "यस्माद् विघ्नपरम्परा विघटते, दास्यं सुराः कुर्वते,
कामः शाम्यति दाम्यतीन्द्रियगणः, कल्याणमुत्सर्पति । 10 उन्मीलन्ति महर्धयः कलयति ध्वंसं, चयः कर्मणां, स्वाधीनं त्रिदिवं शिवं भवति श्लाघ्यं तपस्तन्न किम्" ॥२१५॥ [शा.वि.]
[सि.प्र./८२] "यद् दूरं यद् दूराराध्यं, यच्च दूरे व्यवस्थितम् ।
तत् सर्वं तपसा साध्यं, तपो हि दुरतिक्रमम्" ॥२१६॥ [आ.उ./९५ ] 15 "सूर्येण विश्वं, पवनेन तापो, नीरेण चीरं, ज्वलनेन हेम ।
पुत्रेण गेहं, चरितेन गात्रं, तथा हि देहं तपसा पवित्रम्" ॥२१७॥ [ उपजाति] [ ] "नाणेण जाणई भावे, सम्मत्तेण य सद्दहे। चरित्तेण निगिण्हाइ, भावेण परिसुज्झई" ॥२१८॥ [ आर्या ] [ र.सं./३०७]
"विविहगुणतवोरए य, निच्चं हवइ निरासए निज्जरट्ठिए । 20 तवसा धुणइ पुराणपावगं, जुत्तो य सया तवसमहीए" ॥२१९॥[ द.वै./४५७] "त५:२सिं 9431, ते तरस संसार।
४२यां, ते नि२४५, पाम भोक्ष ह्यार" ॥२२०॥ [ ] "रायता धरि पेटी, यंहनपाता नाम।
तपई प्रमाल भडासती, प्राभि पंथमहाम" ॥२२१॥ [ ] 25 "पृथ्वीनाथसुता भुजक्ष( भुजिष्य )चरिता, जञ्जीरिता, मुण्डिता,
क्षुत्क्षामा, रुदती विहाय पदयोरन्तर्गता देहिलीम् । कुल्माषान् प्रहरद्वयव्यपगमे, सूर्पस्य कोणे स्थितान्, दद्यात् पारणकं( के) तदा भगवतस्सोऽयं महाऽभिग्रहः" ॥२२२॥[शा.वि.] [ ]
D:\amarata.pm5\3rd proof