SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ [१५१ ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥] साक्षात् कपर्दियक्षोऽस्य जजागार जवाज्जपात् । याचे(याच्ये) हं यच्च तद्देयमिति जल्पन् पुरःस्थितः ॥२२३।। या त्वया प्राक्कृता पूजा, चातुर्मासिकपर्वणि । आरामिकसुमैः सौम्य ! तत्फलं मे ददस्व भोः ॥२२४।। तेनोक्तं व्यक्तमेवैतदेकाऽर्चा कुसुमस्य मे । फलं तदिह सर्वज्ञं विना दातुं न शक्नुयात् ॥२२५।। यतः - "आयुष्कं यदि सागरोपममितं, व्याधि-व्यथावर्जितं, पाण्डित्यं च समस्तवस्तुविषयं प्रावीण्यलब्धाऽऽस्पदम् । जिह्वा कोटिमिता च पाटवयुता, स्यान्मे मुखाम्भोरुहे, नो शक्नोमि तथैव वर्णितुमलं तीर्थेशपूजाफलम्" ॥२२६॥ [शा.वि.] [ ] " दस भाटि (=साटि), निव२ सिवसुड। मेडवी ४२ ६ साटि, अपुरे भोखिम शिवरती" ॥२२७॥ [ ] विभाव्य तस्य साधर्म्य, निश्शङ्कत्वं च दर्शने । कपर्दिना यथाकामं, रूप्य-कल्याणसम्भृताः ॥२२८।। सपादकोटिरत्नाद्यैः सम्पूर्णाः पूर्णकुम्भकाः । चतुर्पु गृहकोणेषु, धीमता सन्निधीकृताः ॥२२९॥ युग्मम् स्वप्ने श्रीधनदाख्यस्य, संज्ञाप्य कलशानिमान् । रञ्जितस्तद्गुणश्रेण्या, यक्षोऽदृश्यत्वमासदत् ॥२३०॥ विद्यां ध्यात्वा ससत्त्वात्मा, स्वप्नं विज्ञप्य सद्गुरोः । प्रातःकृत्यानि कृत्वाऽसौ, धनदः स्वगृहं गतः ॥२३१।। सधर्मनिन्दाप्रवणेषु तेषु , समर्पयामास चतुस्सुतेषु । ओकश्चतुष्के(को)णनिधीकृतांस्तान्, कपर्दियक्षेण कुनाभिकुम्भान् ।।२३२॥ [उप.] चतुर्भिश्चतुरैः पुत्रैरादिष्टं पितृरग्रतः । एते त्वया कथं प्राप्ताः ? केनाऽप्तेन प्रसादिताः ? ॥२३३।। जवाज्जगाद जनकः, स्वसुतांश्चतुराशयान् । गतकृष्णचतुर्दश्यां, तपस्तप्त्वा समाधिदम् ॥२३४॥ 25 D:\amarata.pm5|3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy