________________
१४]
[ऋषिदत्ताचरित्रसंग्रहः ॥ यदुक्तं - "सा प्राज्ञता, या न करोति पापं, तत् सौहृदं यत् कुरुते परोक्षे । तद् भोजनं यद् गुरुदत्तशेषं, दम्भं विना यः क्रियते, स धर्मः" ॥१९०॥[इन्द्र.][ ]
"यतिहस्ते जलं दद्याद् , भैक्षं दद्यात् पुनर्जलम् । 5 तद् भैक्ष्यं मेरुणा तुल्यं, तज्जलं सागरोपमम्" ॥१९१॥ [ ] "व्याजे स्याद् द्विगुणं वित्तं, व्यवसाये चतुर्गुणम् ।
क्षेत्रे शतगुणं प्रोक्तम् , पात्रेऽनन्तगुणं स्मृतम्' ॥१९२॥[ ] युधिष्ठिर-भीमपात्रसंवरेऽप्युक्तम् -
"मूर्खस्तपस्वी राजेन्द्र !, विद्वांश्च वृषलीपतिः 10 उभौ तौ तिष्ठतो द्वारे, कस्य दानं प्रदीयते" ॥१९३॥[ ]
युधिष्ठिर उवाच - "सुखाऽऽसेव्यं तपो भीम !, विद्या कष्टदुराचरा । विद्वांसं पूजयिष्यामि, तपोभिः किं प्रयोजनम्" ॥१९४॥[ ]
भीम उवाच - 15 "श्वानचर्मगता गङ्गा, दुग्धं मद्यघटस्थितम् ।
कुपात्रे पतिता विद्या, किं करोति युधिष्ठिर !" ॥१९५॥[ ] युधिष्ठिर उवाच - "न विद्यया केवलया, तपसा चाऽपि पात्रता ।
उभे ते यस्य विद्येते, तद्धि पात्रं प्रचक्षते" ॥१९६॥[ ] 20 “सा साई, तं पि जलं, पत्तविसेसेण अंतरं गरुयं ।
अहिमुहपडियं गरलं, सिप्पिउडे मुत्तियं होइ" ॥१९७॥ [ ] आगमेऽप्युक्तम् - "पहसंत-गिलाणेसु य, आगमगाहीसु तह य कयालोए ।
उत्तरपारणगम्मि य, दिन्नं सुबहुप्फलं होइ" ॥१९८॥ [ पु.मा./५३ ] 25 “पढमं जईण दाऊण, अप्पणा पणमिऊण पारेइ ।
असईए सुविहियाणं, भुंजइ इय कयदिसालोयो" ॥१९९॥[ उप.मा./२३८] "साहूण कप्पणिज्जं, जं न वि दिन्नं, कहिंचि किंपि तहिं । धीरा जहुत्तकारी, सुसावगा तं न भुंजंति" ॥२००॥ [ उप.मा./२३९]
D:\amarata.pm53rd proof