SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥ ] तदेव त्रिजगन्नेतश्चेतः, केतकसुन्दरम् । यद् त्वद्ध्यानविधानैकरसावेशवशं भवेत् ॥ १७७॥ त्वमेव सर्वं जानासि, मत्कृत्याऽकृत्यसङ्कथाम् । प्रभो ! प्रसत्तिमाधाय, सविधे सन्निधेहि माम्" ॥१७८॥ भावनां भावयित्वैवं, निवृत्तो निजचैत्यतः । गुरुं विवन्दिषुरयं, प्राप्तः पौषधशालिकाम् ॥१७९॥ वन्दिता गुरवस्तत्र, द्वादशावर्त्तवन्दनैः । मनो-वचो-वपुःशुद्ध्या, बुद्ध्या श्रद्धातिशुद्धये ॥१८०॥ विशेषाद् गुरवो दद्युस्तस्य धर्माऽऽशिषं पराम् । यथाविधि निषण्णस्तान्, विषण्णः प्रश्नयत्यसौ ॥१८२॥ कथं सम्पद्-विपत्पात्रमहं मानविवर्जित: ? । स्थानभ्रष्टः कथं जात ? इत्युक्ते गुरवोऽब्रुवन् ॥१८२॥ "अभूद् रत्नपुरद्रङ्गे, रत्नश्रेष्ठी महर्द्धिकः । प्रेयसी श्रेयसी रत्नावती तस्य प्रवर्तते ॥ १८३॥ तत्कुक्षौ तनुजत्वेन, संवृत्तस्त्वं धनाऽभिधः । जातोऽष्टहायनः पित्रा, सत्कनीं परिणायितः ॥ १८४ ॥ भोजनाऽर्थं निविष्टस्य, तस्येष्टस्य क्षणे क्वचित् । मात्रा मात्राधिकं पात्रे, पायसं परिवेषितम् ॥१८५॥ निरीक्षसे दिशो यावत्, तावदेको महामुनिः । सुदुस्तप्ततपःक्लिन्न-गात्रः पात्रं शमश्रियाम् ॥ १८६॥ भ्रामं भ्रामं गृहव्यूहं, रत्नश्रेष्ठिगृहेऽभ्यगात् । तदा मुदा धनाकेन, तत्क्रमौ प्रणिपत्य च ॥१८७॥ भावतो घृत-खण्डाख्यं(ढ्यम्) पायसं प्रतिलाभितः । ततः स्तोकमिदं ध्यात्वा, त्र्यंशं द्वितीयकं ददौ ॥१८८॥ तृतीयमप्यदात् त्र्यंशं, तस्मै स्थित्वाऽन्तराऽन्तरा । शेषं च जेमितं तेन, पायसं सरसं ततः ॥ १८९॥ D:\amarata.pm5\ 3rd proof [ १४७ 5 10 15 20 25
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy