________________
[ऋषिदत्ताचरित्रसंग्रहः ॥ "ततश्च भावनामेष, भावयेद् भव्यभावभाक् । अनाथोऽशरणोऽत्राणो, निर्भाग्योऽहं जिनेश्वर ! ॥१६३॥ दग्धः क्रोधाग्निना दष्टो, दुष्टलोभमहाऽहिना । मायाभुजङ्गीफूत्कारविह्वलीकृतमानसः ॥१६४॥ मानाऽजगरकग्रस्तो, ध्वस्तो मोहारिणा भृशम् । प्रत्यर्थिना प्रमादेन प्रक्षिप्तः प्रथमेऽग्रणे[?] ॥१६५॥ शीलितं न मया शीलं, न दत्तं दानमर्थिनाम् । न जप्तः परमो मन्त्रो, न तप्तं दुस्तपं तपः ॥१६६॥ वादाय विद्याऽध्ययनं, वैराग्यं वञ्चनाकृते । क्रियाकलापो लज्जायै, किं ब्रुवे हास्यकृद्वचः ॥१६७॥ स्वभावस्वच्छमाकाशं, घनैः प्रच्छाद्यते यथा । नानाविकल्पसङ्कल्पैर्मनोरत्नं मलीकृतम् ॥१६८॥ जय त्वं जगदाधार ! जय त्वं करुणाकर !। जय त्वं त्रिजगन्नाथ ! जय त्वं जगदीश्वर ! ॥१६९॥ जय त्वं श्रीयुगादीश ! जय त्वं सुरसंस्तुत !। त्वयि दृष्टिपथाऽयाते, सुप्रभातं ममाऽभवत् ॥१७०॥ तद्विशाल( लं)श्रियाशालि, भालं लोकललामक ! । अलीयते त्रिकालं यत्, त्वत्पादकमलेऽमले ॥१७१॥ ते नेत्रे त्रिजगन्नेत्र !, पात्रे पावित्र्यसम्पदः । अहर्निशं यत् त्वद्रूप-निरूपणपरायणे ॥१७२॥ कर्णी सको तावेव, देव ! सेवकवत्सल !। यौ त्वदीयं गुणग्राम, श्रुणुतः सर्वदा मुदा ॥१७३॥ सा प्रमाणी भवेद्वाणी, प्राणीप्सितसुरद्रुम !। प्रगुणां त्वद्गुणश्रेणिं, या प्रणौति क्षणे क्षणे ॥१७४॥ सा रसज्ञा रसज्ञात्री, पवित्रीकृतसज्जना ! । निरञ्जन ! विजानाति, या तु त्वद्वर्णनारसम् ॥१७५॥ ज्ञातव्यौ तौ सदाऽऽकारौ, मोक्षसौख्याऽऽकरौ करौ । यौ जातावद्य तावत्कसेवाहेवाकि( क )शालिनौ ॥१७६॥
D:\amarata.pm5\3rd proof