________________
ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥]
[१४५ वशिष्ठो रामं प्रत्याह"धनमर्जय काकुत्स्थ ! धनमूलमिदं जगत् ।
अन्तरं नैव पश्यामि, निर्धनस्य शबस्य च" ॥१५२॥[ ] "यस्याऽस्ति वित्तं, स नर: कुलीनः, स पण्डितस्स श्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ति" ॥१५३॥
[भर्त.नी/४१, उपजाति] "अश्वैर्यानवरैर्गजैश्च विविधै,र्गच्छन्ति भाग्यान्वितास्,तं पादैरनुयान्ति दीनमनसो, येषामनिष्टं तपः । एतत् पूर्वकृतं शुभाऽशुभफलं प्रत्यक्षतो दृश्यते, तत्तुल्योदर-पाणि-पाद-वदनाः प्रेष्या नराणां नराः" ॥१५४॥ [शा.वि.] [ ] 10 असौ शङ्खपुराऽऽसन्नग्रामे ग्रामीणसङ्कले । वासमङ्गीचकारैष, सस्वपत्नी-तनूरुहः ॥१५५।। एहिरेयाहिरां कुर्यात् , वारं वारं सुतद्वयम् । मध्येशङ्खपुरग्रामं, सामान्यव्यवसायकृत् ॥१५६।। एवं चतुस्सुतोपात्ताऽऽजीविकाभिस्स जीवति । कुर्याच्चेटीवत् तत्पत्नी, परेषां खण्डनादिकम् ॥१५७।। एकदाऽवसरे श्रेष्ठी, स्वसुतैस्तत्र यायिभिः । समं शङ्खपुरं प्राप, चातुर्मासिकपर्वणि ॥१५८॥ निजप्रासादसोपानमारूढो धनदः पुमान् । कृतोत्तरीयवसनः, कृत्वा नैषेधिकीत्रिकम् ॥१५९।। दत्त्वा प्रदक्षिणास्तिस्रो, यावद् गर्भगृहेऽगमत् । आरामिकेण प्राचीनप्रेम्णा दत्तसुमव्रजैः ॥१६०।। धृत्वाऽऽस्यकोशं विधिना, जिनमभ्यर्च्य भक्तितः । गभीरमधुरस्तोत्रैरतनोच्चैत्यवन्दनाम् ॥१६१।। "नेत्रानन्दकरी भवोदधितरी श्रेयस्तरोर्मञ्जरी, श्रीमद्धर्ममहानरेन्द्रनगरी, व्यापल्लताधूमरी । हर्षोत्कर्षशुभप्रवाहलहरी, राग-द्विषां जित्वरी, पूजा श्रीजिनपुङ्गवस्य भवताच्श्रेयस्करी देहिनाम् ॥१६२॥ [शा.वि.] [उ.त./२१]
D:\amarata.pm5\3rd proof