________________
ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥]
[१४३ एनामहं तथा स्थाने, कुर्वे गुर्वेनसा श्रिताम् । यथा कोऽपि न गृह्णीयात् , दृष्ट्वा हृष्टानतः पुमान् ॥१३१।। अथाऽन्यदा गुरून् नत्वा, लात्वाऽऽशु क्षणमक्षमम् । सुव्ययेनाऽव्ययेनाऽसावर्हच्चैत्यमतिष्ठिपत् ॥१३२।। ऋद्धि-वृद्धि-समृद्ध्यर्थं, श्रीयुगादिजिनेशितुः । बिम्बं स्थापितवान् पूर्वं क्षणपूर्वं शुभक्षणे ॥१३३।। मणि-मौक्तिक-माणिक्य-हीर-चीर-वराम्बरैः । पुत्र-पौत्र-कलत्रादि-जात्यभृत्यैः समन्वितः ॥१३४।। जल-स्थल-पथोद्भूतैर्धनैरतिधनैरपि । कल्याणकोटीकल्याण-कोटीकोटीरकैस्तथा ॥१३५।। सैर(रि)भी-करभीवाह-धेन-धेनुतनूद्भवैः ।। श्रीपादलक्षिका-राज,-वाहनादिसुवाहनैः ॥१३६।। वातायन-वितानैक-मत्तवारण-मन्दिरैः । समृद्धं प्रचुरं प्राप्तः, प्रकर्षेण प्रसिद्धिभाक् ॥१३७।। एवं वदान्यमूर्धन्यो, धन्यो नृपपरिच्छदे । श्रीयुगादिमहिम्नाऽभूद् , वर्धमानो दिने दिने ॥१३८॥ [सप्तभिर्विशेषकम्] पालयत्यार्हतं धर्मं, धर्मकर्मणि कर्मठः । अवन्ध्यं श्रीयुगादीशं, त्रिसन्ध्यं पूजयत्यसौ ॥१३९।। प्रादुर्बभूव प्राचीन(नैः) तस्य दुष्कृतकर्मभिः । दारिद्रयं दुर्भगत्वं च, कालेन कियताप्यहो ॥१४०॥
15
१. उत्सवपूर्वकम् । २. कल्याणवन्तः शुभवन्तः भद्रङ्करः मङ्गलवन्तः परमोत्कृष्टा वा कोटयः याभिस्ताः कल्याणकोट्यः-मङ्गलवदुत्कर्षवन्त्यः इत्यर्थः, कल्याणानां सुवर्णानां कोट्यः । कल्याणकोट्य:-क्रोडप्रमाणानि सुवर्णानि, कल्याणकोटीभिर्मङ्गलवदुत्कर्षवन्तीभिः कल्याणकोटीभिः-सुवर्णकोटीभिः कोटीराणि-उत्तमानि यानि (धनानि) इति कल्याणकोटीमङ्गलवदुत्कर्षवत्सुवर्णकोटिभिः अन्येषु धनेषु यानि उत्तमानि इति, तैः कल्याणकोटीकल्याणकोटीकोटीरकैः । ३. वाहनविशेषः । ४. अवन्ध्यं यथास्यात्तथा ।
D:\amarata.pm5|3rd proof