SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 १४२] [ ऋषिदत्ताचरित्रसंग्रहः ॥ धनदत्तो बृहच्चित्तो, द्वितीयो धनपालकः । धनसारस्सदाचारश्चतुर्थो धननायकः ॥१२०॥ एवंविधाऽभिधैः पुत्रैः, पवित्रैस्स परीवृतः । श्रेष्ठी श्रेष्ठिपदं श्रेष्ठं, नृपदत्तं भुनक्त्यसौ ॥१२१॥ सुविचारी सदाचारी, सद्गुणी सज्जनाग्रणी । सुकृती सुव्रती सत्य - सत्त्ववान् सत्वपालकः ॥ १२२॥ संपन्नेनाऽन्यदा तेन, श्रुता श्रीगुरुदेशना । तत्र लक्ष्मीस्त्रिरूपेति,-स्वरूपात् तैः प्ररूपिता ॥ १२३॥ "दानं भोगो नाशस्तिस्त्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते, तस्य तृतीया गतिर्भवति ॥ १२४ ॥ [ भर्तृ. नी. / ४३] 44 ' क्षत्राणां हय - शा ( शस्त्र - बन्दिषु भवेद् द्रव्यव्ययः प्रायशश् शृङ्गारे पणयोषितां च वणिजां पण्ये, कृषौ क्षेत्रिणाम् । पापानां मधु-मांसयो र्व्यसनिनां स्त्री- द्यूत-मद्यादिके, भूमध्ये कृपणात्मनां सुकृतिनां प्रासाद - तीर्थादिषु ” ॥१२५॥ [ शा.वि. ][ ] काष्ठादीनां जिनावासे, यावन्तः परमाणवः । तावन्ति वर्षलक्षाणि, भवेत् तत्कारकस्सुखी ॥ १२६॥ परमाणुस्वरूपं यथा “जालान्तरगते सूर्ये, यत् सूक्ष्मं दृश्यते रजः । तस्य त्रिंशत्तमो भागः, परमाणुस्स उच्यते ॥१२७॥ [ ] जीर्णोद्धारे त्वष्टगुणं पुण्यं यतः - "नूतनार्हद्वरावास - विधाने यत् फलं भवेत् । तस्मादष्टगुणं पुण्यं, जीर्णोद्धारे विवेकिनाम्" ॥१२८॥[ ] "जिनार्चाकारकाणां नो, कुजन्म कुगतिर्न वा । न दारिद्रयं न दौर्भाग्यं, न चाऽन्यदपि दुष्करम्" ॥१२९॥ [ ] एवमाकर्ण्य सद्वर्ण्य, सोऽग्रणी व्यवहारिणाम् । रङ्गद्गाङ्गतरङ्गाभां चिन्तयेत् तां चलां रमाम् ॥१३०॥ १. रश्मौ इति प्रसिद्धः पाठः । D:\amarata.pm5\ 3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy