________________
ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥]
[१४१ यतः- "जिनभवनं जिनबिम्बं, जिनपूजां जिनमतं च यः कुर्यात् ।
तस्य नराऽमर-शिवसुखफलानि करपल्लवस्थानि" ॥१०९॥[ आर्या] [ ] नृप ! व्यापारपापेभ्यः, सुकृतं स्वीकृतं न यैः ।
ते धूलिधावकेभ्योऽपि, मन्ये मूढतराः नराः ॥११०॥ यद् अन्योक्तिः - [भट्टेन्दुराजः]
5 "आदाय वारि परितस्सरितं शतेभ्यः, किं नाम साधितमनेन महार्णवेन । क्षारीकृतं च वडवादहने हुतं च, पातालकुक्षिकुहरे विनिवेशितं च" ॥१११॥
[व.ति.][ ] प्रासाद-प्रतिमा प्रौढा, प्रतिष्ठा-पुण्यकारिणः । प्राज्यसाम्राज्यसंप्राप्तिः, पूर्वपुण्यप्रभावतः ॥११२।। कारापय तत्तश्चैत्यं, महत्वे मेरुसोदरम् ।
रैदण्डकलशोपेतं यत् ते श्री: स्यात् फलेग्रहि ॥११३।। यतः- "काचिद् बालकवन्महीतलगता मूलच्छिदाकारणं,
द्रव्योपार्जनपुष्पिताऽपि विफला, काचिच्च जातिप्रभा । काचिच्छ्री: कदलीव भोगसुभगा सत्पुण्यबीजच्युता,
15 सर्वाङ्गसुभगा रसाललतिका सत्पुण्यबीजान्विता"॥११४॥[शा.वि.] [ ] गृहकूपी कृपणानां लक्ष्मीर्व्यवहारिणां नगरवापी । अधिकारिणां च सरसी, तरङ्गिणीव क्षितीशानाम् ॥११५॥ [ आर्या ] [ ] ये कारयन्ति चैत्यानि, स्वन्यायद्रव्यसम्पदा ।
श्रे(श्रि)यः श्रेयस्विनस्ते स्युर्धनदश्रेष्ठिवत् पुरा ॥११६।। [दानप्रभावे धनदश्रेष्ठिकथा] तथाहि- श्रीशङ्खनामको राजा, पुरा शङ्खपुर पुरे ।
प्रपालयति साम्राज्यं, सन्न्याय्यं प्राज्यपुण्यतः ॥११७।। श्रेष्ठी श्रेष्ठिविशिष्टोऽस्ति, तद्राज्ये धनदाऽभिधः । नाम्ना च परिणामेन, सर्वाऽसौ महर्धिकः ॥११८।। पुत्राः पवित्राश्चत्वारः, प्रसूताः श्रीधनश्रिया । तद्गेहिन्या मनस्विन्या, धर्म-कामा-ऽर्थ-मोक्षवत् ॥११९॥
25
D:\amarata.pm5\3rd proof