SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १४०] [ऋषिदत्ताचरित्रसंग्रहः ॥ उद्दामद्रविडद्रुमैकपरशुर्लाटाऽटवीपावकोवल्गद्वङ्गभुजङ्गराजगरुडो, गौडाऽब्धिकुम्भोद्भवः । गर्जद्गूर्जरराजसिन्धुरहरि-र्धारान्धकाराऽर्यमा, काम्बोजाम्बुजचन्द्रमा विजयसे, त्वं स्वीयपृथ्वीपते ! ॥९७॥ [शा.वि.] जय त्वं जगदाधार ! जय त्वं जगतीपते ! । जय त्वं शीलगाङ्गेय ! जय त्वं शरणाऽऽश्रय ! ॥९८।। चिरं जीव चिरं नन्द, चिरं पालय मेदिनीम् । परोपकारनिरतश्चिरं जीयात् सुमेरुवत्" ॥१९॥ एवं दत्त्वाऽऽशिषस्तस्य विश्वभूतिकतापसः । विस्मयाऽऽपन्नहृदयम् सदयं पृष्टवानमुम् ॥१००।। विवेकी कथमेकाकी, राजंस्त्वं कुत आगतः । इति श्रीमुनिना पृष्टे, पूर्वमाख्यातवान्नृपः ॥१०१।। यावत् समाधिना तत्र, स्थितोऽस्ति हरिषेणकः । निर्नायकं स्वकं तावत् , पृष्ठतस्सैन्यमागमत् ॥१०२।। अमन्दाऽऽनन्दसर्पकात् दृष्ट्वा हृष्टं तदाऽऽश्रये । अदैन्यसैन्य-भूपाभ्यां, सङ्गताभ्यां मिथस्तदा ॥१०३।। दिनानि कतिचित् सैन्यवता स्थितवता मुनिः । स्पष्टं पृष्टोऽन्यदा राज्ञा विद्वद्भोग्या विशिष्टया[ता] ॥१०४।। तथाहि-"अर्थानामर्जने दुःखमर्जितानां च रक्षणे । आये दुःखं व्यये दुःखं धिगऽर्थोऽनर्थभाजनम्" ॥१०५॥[ ] "एकस्य जन्मनोऽर्थे , मूढाः कुर्वन्ति यानि पापानि । जनयन्ति तानि दुःखं, तेषां जन्मान्तरसहस्रम्" ॥१०६॥[ ] ईदृग् वित्तार्जनं मे स्यात् , कथं च सफलं जनुः । प्रत्युक्तं मुनिना राजन् ! श्रृणु स्वार्थ(साऽर्थ)जनुःफलम् ॥१०७।। प्रासाद-प्रतिमा-प्रौढप्रतिष्ठादिप्रभावना । सत्त्वेष्वमारिकरणं, क्रियते जिनशासने ॥१०८।। D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy