SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १३८] [ऋषिदत्ताचरित्रसंग्रहः ॥ तमय॑मर्यादिकया तपोधनः, सपर्यया साधु स पर्यपूपुजत् । गृहानुपैतुं प्रणयादभीप्सवो, भवन्ति नाऽपुण्यवतां मनीषिणः ॥७६॥ [ वंश.] कन्यादत्ताऽऽसनाऽऽसीनः प्रथिताञ्जलिर्नृपः । कथां प्रश्नयति प्राच्यां, श्रीतपोधनसन्निधौ ॥७७।। मुनिः प्राह - अत्रैव भरतक्षेत्रे, नाम्ना श्रीअमरावती । पुरी गरीयसी ऋध्या, सतीव प्रथिताऽस्त्यहो ॥७८।। सप्राकारा महाभोगा, प्रस्फूर्जबहुलक्षणा । ससत्त्वा सत्रपा सत्यं महेलातिलकाऽऽकृतिः ॥७९॥ ताज्यं पालयेद् राजा, हरिषेणो महायशा[:] । नाम्नाऽपि परिणामेन, राज्यऽस्ति प्रियदर्शना ॥८०॥ तयोः श्रीजयसेनोऽस्ति, कुमारो राज्यपालकः । कला-विद्यासु निष्णातः, सर्वसत्त्वकृपालुकः ॥८१।। अन्यदा दुर्दमेनाऽश्वेनाऽपहृतो राजपाटिकाम् । गतो मुक्तो वनेऽत्रैव, हरिषेणो नरेश्वरः ॥८२।। बाढं बभ्राम भूमीशो, दिग्व्योमसमन्वितः । महाऽरण्ये भृशं भ्राम्यन्नेकतापसमैक्षत ॥८३।। तत्तापससमायोगात् , प्राप्तेऽस्मिन्नाश्रमेऽश्रमे । योग्यासननिषण्णोऽसौ, कृताञ्जलिपुर: पटुः ॥८४॥ शिष्य-प्रशिष्यसम्पूर्णं निजाऽऽचारपरायणम् । 'वि'पूर्वक्रियया मुक्तं, क्लृप्तपुण्यविधि मुनिम् ॥८५।। स्वच्छकच्छ-महाकच्छ-वंशोत्पन्नं कुलेश्वरम् । विश्वभूतिकनामानं, नत्वा विज्ञपयत्यदः ॥८६॥ [त्रिभिर्विशेषकम्] "हरत्यघं सम्प्रति हेतुरेष्यतः, शुभस्य पूर्वाऽऽचरितैः कृतं शुभैः । शरीरभाजां भवदीयदर्शनं, व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥८७॥ [माघ.१/२६वंशस्थ] १. माघकाव्ये प्रथमे सर्गे अस्मिन् पद्ये-'तमय॑मर्यादिकयाऽऽदिपूरुषः' इति पाठः । २. विक्रियया-विकारेण मुक्तम् । ३. अनागतस्य शुभस्य मङ्गलस्य कारणं । 15 20 25 D:\amarata.pm5|3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy