________________
ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥]
[१३७ पृष्ठौ कुर्मार्याऽतिप्रौढव्यूढपुष्पकरण्डकम् । युगादिजिनयात्रायै प्राप्तमेकं तपोधनम् ॥६४॥ गच्छन्तं चैत्यमध्येऽन्तःकन्याकरसुमव्रजैः । अर्चयन्तं जिनं दृष्ट्वा, नृपश्चिन्तितवानिति ॥६५।। किमिन्द्रः किमु वा चन्द्रः, पन्नगेन्द्रः प्रभाकरः । विद्याधरस्सुरः किं वा, साक्षान्मकरकेतनः ॥६६।। नृपः पश्चाद् वलन्तं तं क्लृप्तपूजाविधि मुनिम् । महाभक्त्या नमश्चक्रे, तेनाऽसौ जल्पितस्ततः ॥६७॥ [पञ्चभिर्विशेषकम्] स्वजन्मना त्वया राजन् ! किं कुलं समलङ्कृतम् । त्वन्नाम्नश्च महिम्नश्च, के वर्णाः कुत आगतिः ॥६८।। ततो मुनेः कुमारोऽस्य, सम्बन्धं न्यगदत् स्वकम् । अत्रान्तरे जटाजूटामद्राक्षीत् कुमारिकाम् ॥६९॥ गिरा मधुरया दृष्टः, पृष्टस्तेन महामुनिः । केनेदं कारितं चेतस्सुन्दरं जिनमन्दिरम् ? ॥७०।। के यूयं कानने ह्यऽस्मिन् ?, तवेयं का कुमारिका ? | भगवद्भिस्तपोवद्भिरेतदादिश्यतां मम ॥७१॥ मुनिरेनमथाऽऽचख्यावस्माकं महती कथा । आशातनाः स्युरस्यान्तस्तदुक्तिर्नाऽत्र युज्यते ॥७२॥ तूर्णमागच्छ-भो ! वत्सोटजे निकटवर्तिनि ।
क्रियतेऽर्चा मया तत्रभवतो भवतोऽतिथेः ॥७३।। यतः - "गुरुरग्निद्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
जैनानां सद्गुरुः साधुः, सर्वस्याऽभ्यागतो गुरुः" ॥७४॥[ ] निर्वर्त्य चित्रकृन्नृत्यं, प्रणम्य प्रभुमादिमम् । नृपस्तदुपरोधाच्च, सम्प्राप्तस्तत्र सद्गुणः ॥७५॥
15
20
१. रचित । २. समीपवर्ती । ३. पूजा । ४. पूज्यस्य ।
D:\amarata.pm5|3rd proof