________________
१३६]
[ऋषिदत्ताचरित्रसंग्रहः ॥ "संपत्ते जिणभवणे, लहइ छम्मासियं फलं पुरिसो।
संवच्छरियं तु फलं, दारुहेसे ठिओ लहइ" ॥५३॥ [ उप.र./३/२१९] "पाइ( य )क्खिन्ने(णे) लहइ, वरिससमफलं तओ जिणे दिटे।
पावइ वरिससहस्सं, अणंतपुन्नं जिणथुईए" ॥५४॥ [ उप.र./३/२२०] एतेन नमस्काराः
ततः प्रोद्भूतहृद्भक्त्या, वाचोयुक्त्या स्वशक्तितः ।
प्रचक्रमे कुमारस्तं संस्तोतुं वास्तवैः स्तवैः ॥५५।। यथा-"नृपनाभिबृहत्तरगोत्रभवं, भववारिधितारणपोतसमम् ।
समताममतादिगुणौघधरं, धरणीधवसेवितपादयुगम् ॥५६॥ युगमण्डनदर्शनमोदकर, करपात्रतया विधृतेक्षुरसम् । रसनारससंवरलब्धसुखं, सुख(ष)मामहिमाश्रितकीर्तिभरम् ॥५७॥ भरताऽवनिपावनमूर्तिधरं, धरणीधरदुर्धरसौवबलम् । वलयाऽऽकृतिवप्रनिविष्टतर्नु, तनुताम्रपदाम्बुजपाणियुगम् ॥५८॥ "युगमात्रनिभालितभूमिचरं, चरणाऽऽचरणाश्रितमुक्तिरसम् ।
रममाणयशोभरभव्यवृष,वृषभाङ्कितमत्र नमामि जिनम्"॥५९॥[ तोटकवि.] [कलश:]
"इय पढमजिणेसर, पणयसुरेसर, नाभिनरेसरवंसवरो, हर-हीर-निसायर-खीरसुसायर-हारसहोयरकित्तिभरो । दुहदुरियनिवारण भवियणतारण पत्थियपूरणकप्पतरो, मरुदेवीनंदन, मुनिजनवंदन, सेवकजनआनंदकरो" ॥६०॥
[इति श्रीयुगादिस्तवनम् ] स्तुत्वैवं जिनमानम्य, नटनं नाटयन्नवम् ।
तान-मान-स्फुरद्गान-लयलीनोऽवतिष्ठते ॥६१।। यद् आगमे"सयं पमज्जणे पुन्नं, सहस्सं च विलेवणे । सयसाहस्सिया माला, अणंतं गीयवाइए" ॥६२॥ [ ] इतश्च समये तस्मिन् , प्रलम्बितजटाधरम् । दण्डहस्तं स्फुरद्वस्त्रम् , जराजर्जरसंवरम् ॥६३।।
20
25
१. जिह्वा । २. गढ । ३. सदृश । ४. शरीरम् ।
D:\amarata.pm5|3rd proof