________________
ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥]
[१३५ एवं नानाप्रकारैश्च प्रपूज्य प्रथमं प्रभुम् । उच्चैस्वरं नमस्कारैरतनोच्चैत्यवन्दनाम् ॥४१॥ पञ्चभिर्विशेषकम् । तां चेमाम् - “यत्रैव यत्रैव तवेश ! मूर्तिस्तत्रैव तत्रैव मनो मदीयम् । यत्रैव यत्रैव पदौ त्वदीयौ तत्रैव तत्रैव शिरो मदीयम् ॥४२॥ अद्य मे सफला प्रीतिरद्य मे सफला मतिः । अद्य मे सफलं जन्म, अद्य मे सफलं कुलम् ॥४३॥ अद्य मे सफलं चक्षुरद्य मे सफलं शिरः । अद्य मे सफलं वाचः स्यान्मेऽद्य सफलः करः ॥४४॥ तच्चक्षुद्देश्यसे येन, तन्मनो येन चिन्त्यसे । सज्जनानन्दजननी, सा वाणी स्तूयसे यया ॥४५॥ किं पाणिना परधनग्रहणोद्यतेन, किं पाणिना परवधूस्तनलम्पटेन । किं पाणिना स्वशरणाश्रितघातकेन, किं पाणिना गलगृहीतवनीपकेन ॥४६॥
[वसन्ततिलका] देवभक्तिरसिकः करो वरः, पात्रदानरसिकः करो वरः । निस्पृहः परधने करो वरः, प्राणिनामभयदः करो वरः ॥४७॥[ रथोद्धता] दृष्टोऽसि वन्दितोऽसि त्वं, पूजितोऽसि स्तुतोऽसि यत् । संपन्नोऽस्मि कृतार्थस्त्वां पूजयित्वेति चिन्तयेत्" ॥४८॥ "बिंदू वि उदहिनिहिओ, जह कालमणंतमक्खओ होइ ।
एवमणंतगुणे जिणे, पूआ वि अणंतसुहहेऊ" ॥४९॥ [ उप.र./३/२१४] 20 "पूया परिणामाईसु, जस्स चउत्थाइ सुहफलं होइ।
पूयह तं जिणचंद, जगसरणं मुक्खसुहकरणं" ॥५०॥[ उप.र./३/२१६] यदुक्तं पद्मचरित्रे - "मणसा होइ चउत्थं, छट्ठफलं उट्ठियस्स संभवइ । गमणस्स य आरंभे, हवइ फलं अट्ठमोवासे ॥५१॥ [ उप.र./३/२१७] 25 "गमणे दसमं तु भवे, तह चेव दुवालसंगए किंचि । मज्झे पक्खुववासो, मासोववासं तु दिढे णं" ॥५२॥ [ उप.र./३/२१८]
15
१. याचकेन।
D:\amarata.pm5|3rd proof