________________
१३४]
[ऋषिदत्ताचरित्रसंग्रहः ॥ $ दीर्घिकायां सुदीर्घायां, भृतायां भव्यवारिणा ।
स्नानं पूर्वामुखीभूय, कृत्वा सत्वाऽऽश्रयो नृपः ॥२९।। स्फातैकशाटकोत्तुङ्गोत्तरीपांशुकसंवृतः । धृत्वाऽष्टपुटकोशं च, दत्त्वा तिस्रः प्रदक्षिणाः ॥३०॥ श्रीखण्डा-ऽखण्डकाश्मीर-घनसारघनीकृतम् । कस्तूरीसंस्कृतं कृत्वा, करे चन्दनशुक्तकम् ॥३१॥ सच्चित्तत्यजनाऽचित्ताऽत्यजनैकाग्रचित्तता(ताः) । एकांशुकोत्तरीयं च जिने दृष्टे कराञ्जलिम् ॥३२॥ छत्रा-ऽसी च सृपाटी द्वे, मौलि-चामरयुग्मके ।
क्रमात् कुर्यात् त्यजेत् पञ्च, प्रकाराभिगमं द्विधा ॥३३॥ यद् आगमे- [चैत्यवन्दनभाष्ये] "सचित्तदव्वउ( मु)ज्झणमच्चित्तमणुज्झणमणेगत्तं ।
इगसाडिउत्तरासंग-अंजलि सिरसि जिणे दिढे" ॥३४॥ [ चै.भा./२०] "इय पंचविहाभिगमो अहवा मुंचंति रायचिंधाइं। खग्गं छत्तोवाणह-मउडं चमरे य पंचमए" ॥३५॥ [ चै.भा./२१] अग्रद्वारेऽनवद्याऽऽद्या, मध्येऽन्या जिनसद्मनः । तृतीया भावपूजायां,जल्पन्नैष(षि)धकीमिति ॥३६॥ प्रातः प्रविश्य मध्येऽस्य, निर्माल्यमपसार्य च । गन्धोदकेन संस्नप्य, वपुरुक्षणपूर्वकम् ॥३७॥ हाराऽर्धहार-केयूर-पद्माऽऽदिरचनां नवाम् । रचयन् चन्दनेनाऽसौ पूजयेत् प्रभुमादिमम् ॥३८॥ सहस्र-शतपत्रैश्च, स्फारमन्दारदामभिः । बकुलैर्विपुलश्रीभिः, स्वर्णवर्णसुजातिभिः ॥३९।। केतकीबालकैः राजद्रजचम्पक-पङ्कजैः ।
मल्लिका-यूथिका-कुन्द-मचकुन्द-कदम्बकैः ॥४०॥ १. श्रीखण्ड-केसर-कर्पूरमिश्रित । २. छत्रखड्गौ च उपानहौ । ३. देवगृहस्य । ४. सोनानी, जाइ । ५. रायचांपउ । ६. मालती । ७. जूही ।
15
D:\amarata.pm53rd proof