________________
ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥]
[१३३ जनप्ररूपिताऽध्वा द्राग् , तं तडागं समाययौ । यत्र तैः कन्यका दृष्टा, तत्र स्वर्णरथोऽगमत् ॥१७।। दैवयोगाच्च तां दृष्ट्वा, तेन चेतसि चिन्तितम् । किमेषा स्वर्वधू गाऽङ्गना वाऽनङ्गवल्लभा ॥१८॥ किं नारी, खेचरी किं वा, कुमारी भारती किमु । पद्मा पद्मावती किं वा, श्रीविद्या रोहिणी किमु ॥१९।। स्त्रीरत्नमीदृग् दुःप्रापं, कर्पूरं लवणाकरे । विषवृष्ट्यां सुधाबिन्दुः, कलौ सत्यवचो यथा ॥२०॥ एवं विचिन्त्य तत्रस्थो, यावत् कन्यां निरीक्षते । तावदुत्पत्य सा नष्टा, शिष्टा वीक्ष्य वि(व)रूथिनीम् ॥२१।। तत्सर: परितस्सैन्यं, समुत्तीर्णमिनाऽऽज्ञया । कुमारस्तद्गतस्वान्तस्तां दृष्टुं विपिनेऽभ्रमत् ॥२२॥ वनं विलोकमानोऽसावपश्यच्चैत्यमद्भुतम् । अभ्रंलिहबृहत्-श्रृङ्गस्थाऽष्टापदकुटोद्भटम् ॥२३॥ लक्षयोजनसौवर्णपर्वतप्रतिवादितम् । उत्तुङ्गतोरणश्रेणिभास्वद्वन्दनमालिकम् ॥२४॥ सौवर्णपट्टिकायष्टिक्वणत् किङ्किणिकाऽलिभिः । वातोतपताकाभिः, स्पृशन्तं व्योममण्डलम् ॥२५।। श्रीसा(शा)लभञ्जिकालास्यप्रशस्यारम्भभासितम् । केकि-कण्ठीरवा-ऽश्वा-ऽहि-पास-चित्रकचित्रितम् ॥२६।। कोरणीधोरणीधुर्यद्वारमण्डपमण्डितम् । अभङ्गरङ्गसङ्गीत-स्फारसारङ्गसङ्गतम् ॥२७।। रोजहंस-शुका-ऽम्भोज-वल्लरीवेल्लितान्तरम् । चमत्कृतिकरं चित्ते, चैत्यं दृष्ट्वा जहर्ष सः ॥२८|| [षड्भिः कुलकम्]
20
१. प्रौढशिखरस्थसुवर्णकलशस्तेन । २. किङ्किणी-क्षुद्रघण्टिका । ३. पुत्तलिका । ४. सिंह। ५. कोरणी [दे.] कोतरणीत्यर्थः । ६. हंसवेलि, शुकवेलि, कमलावलि।
D:\amarata.pm5|3rd proof