SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १३२] [ऋषिदत्ताचरित्रसंग्रहः ॥ सा कीदृशी आस्ते श्रृङ्गारलीलाऽलसयुवतियश:कौमुदीराहुजिह्वा, विश्वं जिह्वलयन्ती लटभगुणकलाकेलिकोलाहलेन । सर्वेषामन्ययूनां निजनिजयुवतिप्रीतिवल्लीहिमानी, कन्या लावण्यधन्या, क्षितिप ! रतिपतिक्ष्माभृतो राजधानी ।।८।। [स्रग्धरा] पश्यतां तत्र साऽस्माकं, क्षणेनाऽदृश्यतां गता । विस्मितैर्वनमस्माभिः, शोधितं तिलमात्रतः ॥९।। ततस्सा तत्र नो दृष्टा, विशिष्टा दिव्यकन्यका । त्वत्सेवकानामस्माकं, वेलाभङ्गस्तदाऽजनि ॥१०॥ तच्छ्रुत्वैवं कुमारोऽपि, तां द्रष्टुं(दष्टुं) विस्मितोऽभवत् । तदा च श्रीसहस्रांशुरशस्ताऽस्ताचलं गतः ॥११॥ कुमारस्तान् विसृज्याऽथ, सान्ध्याऽवन्ध्यविधि व्यधात् । स्मृत्वा पञ्चनमस्कारं, सुखं सुप्त्वाऽपतन्निशि(शाम्?) ॥१२॥ विशिष्टयूष्टकृत्यानि, कृत्वा कृत्यज्ञ एव हि । प्रार(रि)प्सितप्रयाणस्य, प्रातढक्कामदापयत् ॥१३॥ प्रयाणढक्कासमयः कीदृशः ? गर्वग्रन्थिलगूर्जरज्वरकरः, कर्णाटकर्णाऽटवीदावाग्निविडेन्द्रदर्पदलनश्चौडेन्द्रनिद्राहरः । प्रत्यर्थिप्रमदामदालसलसद्भूताण्डवस्तम्भनः, प्रस्थाने नृपतेश्च डिण्डिमडमत्कारो जगद् गाहते ॥१४॥ [शार्दूलवि०] सैन्याधिकारिणस्सर्वे प्रयाणोपक्रमं व्यधुः । पुरः स्वल्पपरीवारोऽध्यारोहत् तुरगं नृपः ॥१५।। तं च कीदृशम् ? निर्मीसं मुखमण्डले, परिमितं मध्ये, लघु कर्णयोः, स्कन्धे बन्धुरमप्रमाणमुरसि, स्निग्धं च रोमोद्गमे । पीनं पश्चिमपार्श्वयोः, पृथुतरं पृष्टे, प्रधानं जवे, राजा वाजिनमारुरोह स-कलं युक्तं प्रशस्तैर्गुणैः ॥१६।। [शार्दूलवि०] 25 १. उत्सुकः । २. प्रभातकार्याणि । ३. व्याप्त । D:\amarata.pm5|3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy