SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 5 ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥ इतश्च- कौबेरी प्रत्यथ स्वर्णरथेन व्रजताऽटवी । वासिता भासिता सैन्यैर्नगरीव गरीयसी ॥१॥ पाथ:केलिकृतः प्रेष्याः, कौतुकोत्तानमानसाः । विज्ञा विज्ञप्तिकां कर्तुं , राजानं समुपस्थिताः ॥२॥ कुमारोऽवक् कथं वेला, हेलामात्रमियत्यहो । लग्नाऽत्र भवतां तत् किं, कारणं कथ्यतां मम ॥३॥ तैरुचे-वयमेकस्मिन् , कानने निर्जने गताः । सच्छाये सुमनोरम्ये, देव ! देवनहेतवे ॥४॥ तत्राऽब्धिसदृशो दृष्टस्तडागश्च मनोहरः । सुमनोराजहंसानां, मानसानन्दायकः ॥५॥ स कीदृग् हंसैर्लब्धप्रशंसैः प्रचलितकमलप्रत्तरङ्गैस्तरङ्गनीरैरन्तर्गभीरैश्चटुलबककुलग्रासलीनैश्च मीनैः । पालीरूढद्रुमालीस्थितबहुपथिकस्त्रीप्रणीतैश्च गीतै र्भाति प्रक्रीडदाऽऽतिर्वनभुवि विलसच्चक्रवाकस्तडागः ॥६॥ [स्रग्धरा] सरस्तीरस्थितैर्दृष्टाऽस्माभिः काऽपि कनी नवा । जितस्वस्कन्यकारूपा, दोलाऽन्दोलनकर्मठा ॥७॥ 10 15 १. कूर्दनं-क्रीडनं । २. दत्तहः पा. । ३. मत्स्यविशेषः [दे. ८/२४] जलकुक्कुटो वा । ४. स्वर्गकन्या । ५. तत्परा । D:\amarata.pm5|3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy