SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १३०] [ऋषिदत्ताचरित्रसंग्रहः ॥ सोत्सवं सप्रमोदं च, नर-नारीनिरीक्षितः । शुभे घस्रने शुभे लग्ने, बन्दिवृन्दैरभिष्टुतः ॥२५१॥ निस्वान-पटहाऽऽतोद्यनिनादैगर्जदम्बरम् । राजा लीलावतीपुर्याः, पौरपूरैः प्रवेशितः ॥२५२।। उग्रभोगैरुग्रभोगैः स्फुरद्भोगैश्च मन्त्रिभिः । राज्यै स्फारसौजन्यैः श्रीकारिव्यतिकारिभिः ॥२५३॥ ततोऽभिषिक्तस्तद्राज्ये, शत्रुशल्यस्तदङ्गजः । प्रहृष्टाः श्रेष्ठिनश्शिष्टाः, नष्टाः स्पष्टं परे नृपाः ॥२५४॥ नृत्यं नृत्यन्ति नर्तक्यो, गीतं गायन्ति गायनाः । महादानानि दीयन्ते, उद्धूयन्ते ध्वजाव्रजाः ॥२५५।। प्रवृत्ता मङ्गलाऽऽचारा, निवृत्ता दुःखवासराः । प्राऽऽप्ताः प्राप्ताः प्रमोदस्य, पदवीमदवीयसीम् ॥२५६।। एवं स्वं पालयेद् राज्यं, भुङ्क्ते भोगान् भवाऽरतः । शत्रुशल्यो महाराजा, जिनधर्मप्रभावतः ॥२५७॥ [अर्थतोऽष्टभिर्विशेषकम्] स भूत्वा भुक्तभोगोऽयं, पट्टे संस्थाप्य नन्दनम् । प्रान्ते प्राप्तपरिव्रज्यः, प्राप्स्यति प्रवरं पदम् ॥२५८।। इति श्रीऋषिदत्ताचरित्रे राजाऽरिदमनप्रव्रज्यास्वर्गगमनवक्तव्यताख्यः प्रथमोल्लासः ॥ 15 १. उग्रा:-प्रबला भोगाः येषां ते उग्रभोगा:-विपुलसुखाः तैः, उग्रा:-प्रचण्डाः भोगाः समानराजन्याः-उग्रभोगाः, तैरुग्रभोगैः । २. स्फुरन्ति भोगानि शरीराणि येषां ते स्फुरद्भोगाः, तैः स्फुरद्भोगैः । ३. प्रकर्षेण आप्ताहितकारिणः । D:\amarata.pm5|3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy