________________
ऋषिदत्ताचरित्रे प्रथमोल्लासः ॥]
[१२९ एवं निशम्य विज्ञेन, विज्ञप्तो गुरुपुङ्गवः । जिघृक्षुरागतोऽस्म्यस्मि, श्राद्धधर्मं सुदर्शनम् ॥२३८।। गुरुरुवाच मा कुर्याः, प्रतिबन्धं महीपते ! । महाऽऽदृत्या महीनाथः, श्राद्धधर्मं प्रपन्नवान् ॥२३९॥ श्रीधर्मगुरुरापृष्टः, शत्रुशल्येन धीमता । कृताञ्जलिपुटेनेति का गति विनी पितुः ॥२४०॥ गुरुराख्यन् महाराज ! श्राद्धधर्मैकसाधक ! ।
श्रुग्वेकाग्रमना धर्मे, स्वपितु विनीं गतिम् ॥२४१॥ यथा-"स्मरन् पञ्चनमस्कारं, गुरुशिक्षामनुस्मरन् ।
अधियन्नागमं, तन्वन् , कायोत्सर्गमहर्निशम् ॥२४२॥ रत्नावली-महाभद्र-सर्वतोभद्र-भद्रकम् । प्रतिमा-घनवर्गाश्च, षष्ठाऽष्टम-चतुर्थकान् ॥२४३।। सिंहनि(नि:)क्रीडितादीनि, तत्त्वाऽत्युग्रतपांसि च । कृत्वा संलेखनामासं, नमितीर्थे शिवङ्गमी ॥२४४॥ [त्रिभिःकुलकम्] इत्याऽऽकर्ण्य नमस्कृत्य, श्रीराजर्षिमहागुरून् । शत्रुशल्योऽनुववले, दूताऽऽहूतस्समाहितः ॥२४५।। श्रीवासाऽऽरामतस्सद्यः, सोऽथ श्रीवासपत्तने । श्रीश्रीधरधराधीशं, मिलितुं समुपागतः ॥२४६॥ मिष्टान्नैघृतपक्वान्नैर्भक्तितो भोजितो भृशम् । वस्त्राऽलङ्कृतिसत्कारैः, सत्कृतः सपरिच्छदः ॥२४७।। प्रपन्नश्राद्धधर्मेण, साधर्म्यणाप्यनेन च । सतीhण कृतार्थोऽहं, संपन्नोऽस्मीति चिन्तयन् ॥२४८॥ श्रद्धालुना परां प्रौढिं प्रापितान्तः प्रमोदभाक् । विश्वेशो ववले पश्चाद् ययौ लीलावतीपुरीम् ॥२४९।। राजर्षि मनसा ध्यायन् , गृहिधर्ममपालयत् । शत्रुशल्यो महीपालः, कृपालुर्जीवयोनिषु ॥२५०।।
१. अस्मिशब्देन अहं।
D:\amarata.pm5|3rd proof