________________
१२६]
[ऋषिदत्ताचरित्रसंग्रहः ॥
उक्तं च"निःस्वः स्वर्णनिधिं यथाऽऽप्य लभते, स्वान्ते नितान्तं मुदं, तृष्णाक्लान्त इव प्रपामनुपमां, धर्माऽऽतुरो वा तरुम् । शीतातॊ ज्वलितं हुताशनमिव, स्थानं पथो वा च्युतस्तद्वत् त्वामुपलभ्य भाग्यवशतो जातोऽस्मि मोदास्पदम् ॥२०६॥ [शा०वि०][ ] तथाप्रमोदप्रोद्भूतपुलकाङ्कितविग्रहः । निःशल्यश्शत्रुशल्योऽभूत् , निरस्ताऽशस्तविग्रहः ॥२०७।। प्रमदाः प्रमदाऽश्रूण्यऽप्रमितप्रेमपूरिताः ।
मुञ्चन्त्यः सत्त्ववत्यस्ताः, प्रणेमुः पतिपद्वयम् ॥२०८।। 10 पुत्रो विज्ञपयेत्-तात ! त्वं मां पालय पालय ।
त्वं त्यागपूरिताऽऽकाङ्क्षान् , विसर्जय वनीपकान् ॥२०९।। यदुक्तम् – “हुतमिष्टं च तप्तं च, धर्मश्चाऽयं कुलस्य ते ।
गृहात् प्रतिनिवर्त्तन्ते, पूर्णकामा यदर्थिनः" ॥२१०॥ [ ] ध्रियमाणाऽऽतपत्रस्त्वं, वीज्यमानश्च चामरैः । गृहमागच्छ साम्राज्यं, भुक्ष्व भोगान् सुदुर्लभान् ॥२११।। सनाथय त्वं नाथं मां, समुद्धर निजाः प्रजाः । साधारय त्वं शुद्धान्तमङ्गीकुरु वि(व)रूथिनीम् ॥२१२॥ ददस्व दानं दीनेषु , सन्मानं सज्जने जने ।
विद्वत्सु बहुमानं वाऽपमानं दुर्जने जने ॥२१३।। 20 यतः - "शठदमनमशठपालनमाश्रितभरणं च राजचिह्नानि ।
अभिषेकपट्टबन्धो, बालव्यजनं व्रणस्याऽपि" ॥२१४॥ [ आर्या ] [ ] प्राप्य चलानधिकारान् , शत्रौ मित्रे च बन्धुवर्गे च । नाऽपकृतं नोपकृतं, न संस्कृतं, किं कृतं ? तेन ॥२१५॥ [ आर्या ] [ ] मणिमौक्तिकमाणिक्य-हीर-चीराम्बराऽऽकरम् । सगृही[गृह्णी]ष्व महाकोशं, तत् त्वं लोकम्पृणो भव ॥२१६।।
25
१. खिन्नः । २. शरीरः । ३. निर्वैरः । ४. हयगजररथ३पदाति४रूपा सेना ।
D:\amarata.pm5|3rd proof