SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रे प्रथमोल्लासः ॥ ] राजर्षिस्तमनूवाच, वाचं वाचंयमेश्वरः । त्वं मां प्रार्थयसे भोगैर्विषयै विषसोदरैः ॥ २१७॥ शत्रुशल्य ! महाराज ! श्रुणु तत्र निदर्शनम् । बाढं बुभुक्षितोऽप्यङ्गी, किं वान्तं भोक्तुमिच्छति ॥२१८॥ यथागमे - [ दशवैकालिके ] 'पक्खंदे जलियं जोइं, धूमकेउं दुरासयं । " *निच्छंति वंतयं भोत्तुं कुले जाया अगंधणे" ॥२१९॥ [ द.वै./अ.२/६] उत्तराध्ययने “उल्लो सुक्को य दो छूढा, गोलया मट्टियामया । दो व आवडिया कुड्डे, जो अल्लो सोऽत्थ लग्गई" ॥२२०॥ उत्त. / २५/४१ ] "एवं लग्गंति दुम्मेहा, जे नरा कामलालसा । विरत्ता उ न लग्गंति, जहा सुक्के य गोलए" ॥२२९॥ [ उत्त/ २५ / ४२ ] पितुरुक्तमिति श्रुत्वा, मत्वा भवविरक्तताम् । विभाव्य भव्यजीवं च, कुमारो मौनमाश्रितः ॥ २२२॥ [ १२७ धर्ममूर्त्तिमुनीन्द्रोऽथ, तत्त्वाऽतत्त्वप्रकाशिनीम् । 44 अतनोद् देशनां भव्यां, भव्याज्ञानविनाशिनीम् ॥२२३॥ 'अर्हन् देवः कृपा धर्मः, साधवस्सत्त्वसिन्धवः । भास्वद्रत्नत्रयीमुख्यं, सम्यक्त्वं प्रणिगद्यते ॥२२४॥ यथा द्रुमेषु कल्पद्रुश्चिन्तारत्नं मणीषु च । ज्योतिश्चक्रे तमीनाथः, शचीनाथस्सुपर्वसु ॥२२५॥ मन्त्रे पञ्चनमस्कारः, व्रतं तुर्यं व्रतेषु च । दाने प्राणिदया मुख्या, तीर्थेषु विमलाचलः ॥२२६॥ तथैव सर्वधर्मेषु, दर्शनं वरिवर्त्यदः । यन्महिम्नाऽपि सेत्स्यन्ति सिद्धाः सिध्यन्ति चापरे ॥ २२७॥ सत्यकि-श्रेणिकाधीश - षड्बिन्दु - सुलसादयः । एष्यत्तीर्थे भविष्यन्ति, जीवा नवमिता जिनाः ॥ २२८॥ १. सदृशैः । २. दृष्टान्तं । ३. सत्त्वसमुद्रः सत्त्ववन्त इत्यर्थः । ४. ज्ञानदर्शनचारित्ररत्नत्रयीमुख्यं - प्रधानं । * नेच्छंति द. I D:\amarata.pm5\3rd proof 5 10 15 20 25
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy