________________
5
ऋषिदत्ताचरित्रे प्रथमोल्लासः ॥]
[१२५ गङ्गाजल(लं) तुरङ्गात् तु, स्फूर्जद्वैश्रवणद्रुमे । सशल्यश्शत्रुशल्यस्स्रागुत्ततार ससैन्यकः ॥१९४।। तेनोपविश्य पृष्टोऽसावध्वगोऽस्याऽशिषं ददे । 'चिरं जीव, चिरं नन्द', पालय स्वाऽवनीमिति ॥१९५॥
को भवान् ? कस्त्वत् स्वामी ? किमर्थं ? केन हेतुना ? । किंगोत्रस्त्वं च किनामा ? क्व गतोऽस्याऽऽगतः कुतः ? ॥१९६।। ततोऽध्वगेन प्रत्युक्तं दतोऽहं दर्दराभिधः । राजन्यस्त्यक्तदौर्जन्यः, श्रीश्रीधरमहीभुजः ॥१९७।। श्रीवासद्रङ्गकाद् रङ्गात् , तुभ्यमभ्यागतोऽस्म्यहम् । नृपाऽरिदमनर्षेश्च, व्रतज्ञापनहेतवे ॥१९८।। एतद्व्यतिकरं मत्वा, दत्वाऽस्मै पारितोषिकम् । सार्धं तेनाऽचलद् राजा, तं प्रत्यन्तःप्रमोदभाक् ॥१९९।। असौ कियत्प्रयाणैर्दाग् , प्राप्तः श्रीवासपत्तने । वापी-वप्र-प्रपा-पद्म-सर-सम्पूर्णसीमनि ॥२००।। वरिवत्ति निवृत्ताऽशं, श्रीवासं तत्र काननम् । ग्रेवाक-दईरीकाऽऽढ्यं, नागवल्लीप्रफुल्लितम् ॥२०१।। प्रेष्यप्रकटिताऽध्वाऽसौ, स्वपितुर्दर्शनोत्सुकः । कौतुकोत्तानचक्षुलं, प्रेक्षते सर्वतो वनम् ॥२०२।। तदा सदाफलासीनमद्राक्षीत् सौम्यदर्शनम् । धर्मध्यानसमालीनं, धर्ममूर्तिमुनीश्वरम् ॥२०३।। जग्मिवान् तद्गुरोः पार्वे, यावत् तावन्निरीक्षितः । राजाऽरिदमनर्षिश्च, समताऽऽश्रितमानसः ॥२०४।। निःस्वः स्वर्णनिधि प्राप्य, निर्नाथः स्वामिनं यथा । पिपासितः प्रपां चाऽऽप्य, तं दृष्ट्वा मुमुदे सुतः ॥२०५।।
१. वटवृक्षे । २. नगरात् । ३. हर्षात् । ४. दुःखम् । ५. पूगीफल । ६. दाडिमी । ७. विस्तीर्ण । ८. अरिदमनराजर्षि ।
D:\amarata.pm5|3rd proof