SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १२४] [ऋषिदत्ताचरित्रसंग्रहः ॥ गुरुरुचे महाभाग ! श्रीश्रीधरमहीपते ! । लीलावतीपुरीस्वामी, नृपोऽरिदमनो ह्यसौ ॥१८२।। राज्यभ्रंशाऽटवीचारवैरिसैन्यग्रहादिजात् । दुःखगर्भाख्यवैराग्यात् , सञ्जातस्संयतो नृपः ॥१८३॥ तदर्शनसमापन्नाऽभङ्गवैराग्यरङ्गतः । स्वाख्यातमार्हतं श्राद्धधर्मं राजा प्रपन्नवान् ॥१८४।। धर्ममूर्तिं गुरुं नत्वा, स्मृत्वाऽरिदमनं मुनिम् । जग्मिवान् स्वपुरं सोऽपि, पालयामास तद् व्रतम् ॥१८५।। हर्षात् पर्षत्समासीनोऽन्यदा चिन्तितवानदः । सुतस्य ज्ञाप्यते वृत्तं, प्रेष्यप्रेषणपूर्वकम् ॥१८६।। एवं विचिन्त्य निश्चिन्त्य, निश्चिन्तः श्रीधरः पतिः । तत्र लीलावतीपुस्, प्राहिणोद् दूतमात्मनः ॥१८७।। इतश्च- पद्मिनीव विना भानु, शर्वरी शशिनं विना । कलहंसं विना हंसी, पद्मा पद्मापति विना ॥१८८॥ उमा रामा यथा श्यामा, शङ्करं शङ्करं विना । शची विना शचीनाथस्तथाऽरिदमनं विना ॥१८९।। राज्ञोऽरिदमनाख्यस्य, सैन्ये दैन्यसमाकुले । पश्चात् समागते तत्र, विषण्णाऽभूत् तदा पुरी ॥१९०॥ [त्रिभिः कुलकम्] वैरनिर्यातनार्थं च, शत्रुस्वर्णरथस्य हि । भास्वल्लीलावतीपुर्याः, शुभलग्ने शुभक्षणे ॥१९१।। सैन्यैरदैन्यैरन्यूनः, शत्रुशल्यस्तदङ्गजः । । निभालयन् तदध्वानं, प्रयाणैः प्रस्थितो जवात् ॥१९२।। कोपाटोपाऽरुणो यावत् , त्वरितं त्वरितं चरेत्(रन्) । कुतश्चिदागतस्तावदध्वन्यो मिलितोऽध्वनि ॥१९३।। १. दूत । २. पार्वती । ३. शं सुखं करोतीति शङ्करः, तं शङ्करमीश्वरम् । ४. पथिकः । D:\amarata.pm53rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy