________________
ऋषिदत्ताचरित्रे प्रथमोल्लासः ॥]
[१२३ चतुर्दशमहारज्जु-प्रमिते भुवनत्रये । तन्नाऽस्ति किमपि स्थानं, यन्न स्पृष्टं तु जन्तुभिः ॥१६९।। "सा नऽत्थि जाइ-जोणी, चउरासीलक्खजीवजोणीसु । धम्मम्मि कयपमाओ, जत्थ अहं नाह ! न वि जाओ" ॥१७०॥[ ] भ्रान्ताश्च जीवयोनीनां, लक्षाश्चतुरशीतिकाः । देव-नारक-तिर्यक्षु, जन्तुना सुचिरं स्थितम् ॥१७१॥ "तं नऽत्थि किं पि ठाणं, चउदसरज्जुष्पमाणलोगम्मि । पत्ताणि जत्थ न मए, अणंतसो जम्म-मरणाणि" ॥१७२॥[ पु.मा./३९९] ये पुद्गलपरावर्ताः, प्रोक्ता अष्टौ जिनेश्वरैः ।
कृतास्तेष्वङ्गिनैकैकाऽनन्तशोऽदृष्टयोगतः ॥१७३॥ यद् आगमे
"जे पुग्गलपरियट्टा, अट्ठ जिणिदेहिं जिणमए भणिया । तेसु य केओ मए इह, अणंतसो इक्कमिक्को वि" ॥१७४॥ [] अव्यवहारिकराशौ विरचय्याऽनन्तपुद्गलावर्तान् ।
व्यवहारराशिरेवं, समधिगतोऽनेन जीवेन ॥१७५।। यदुक्तं-"अव्ववहारियमज्झे भमिऊण अणंतपुग्गलपरवट्टे ।
कह वि ववहाररासिं, संपत्तो नाह! तत्थ वि य" ॥१७६॥[ ] आर्यक्षेत्रं कुलं रूप-मायुरारोग्यसम्पदः । अर्हद्-गुरुवचःश्रद्धा प्राप्यते न पुनः पुनः ॥१७७॥ विनय-विवेक-सुविद्या-विलास-सुविचार-चातुरी-सुगुणाः। 20 भोगास्सुसाधुयोगा, भवन्ति जिनधर्मतोऽप्येते ॥१७८॥ [आर्या०] द्वादशस्वर्गसंसर्गो, नवग्रैवेयकस्थितिः । उत्तराऽनुत्तराऽऽवाप्तिर्मुक्तिधर्मात् क्रमाद् भवेत् ॥१७९।। एवं चतुर्विधं धर्म, श्रुत्वा मत्त्वाऽर्थसाधकम् । गुरुं प्रश्नयति प्रेक्ष्य, मुनिमेकं सुरूपकम् ॥१८०॥ कोऽपि देवकुमारोऽसौ, रतिप्रियतमः किमु ।
कुबेर: कुबर: किं वा, हरिविद्याधरस्सुरः ॥१८१॥ १. कर्मयोगात् । २. तेषु च पुद्गलपरावर्तेषु । ३. कृतः । ४. प्राप्तः ।
15
D:\amarata.pm5\3rd proof