________________
१२०]
[ऋषिदत्ताचरित्रसंग्रहः ॥
यदुक्तम्"कडुयकसायतरूणं, पुष्पं च फलं च दो वि विरसाइं।
पुप्फेण झायइ कुविओ, फलेण पावं समायड्" ॥१३३॥[ उप.मा./३६] "जे य कंते पिये भोए, लद्धे वि पिट्ठि कुव्वइ । साहीणे चयइ भोए, से हु चाइ त्ति वुच्चइ" ॥१३४॥ [ द.वै/अ.२/३] बाह्यान्तरारिदमनो, द्रव्यतो भावतोऽपि हि । नाम्नाऽरिदमनो राजा, जग्राह व्रतमाग्रहात ॥१३५।। इतश्चोद्यानपालेन, विज्ञप्तः श्रीधरः पतिः । वर्धाप्यसे महाराज ! दिष्ट्या वृष्ट्याप्यनभ्रया ॥१३६।। राजर्षिसहिता राजन् ! राजानः पुण्यपत्तने । धर्ममूर्तिमुनीशानाः, श्रीवासोद्यानमागताः ॥१३७।। तद्वचः श्रवणोद्भूतप्रमोदपुलकाङ्कितः । कोटीरव्यतिरिक्तं सोऽदादस्मै स्वाङ्गभूषणम् ॥१३८।। ततो ध्यायन् मुनिध्यानं, निध्यायन् स्वपुरोत्सवम् । निभालयन् वनाध्वानं, सद्ध्यानं चिन्तयन्निति ॥१३९।। अमितं पर्वते पुण्यं, तीर्थे लक्षमुदाहृतम् । कोट्यं देवालये प्राहुरनन्तं गुरुसन्निधौ ॥१४०॥ साधूनां दर्शनं श्रेष्ठं, तीर्थभूता हि साधवः । कालेन फलते तीर्थं, सद्यस्साधुसमागमः ॥१४१॥ दर्शनेन जिनेन्द्राणां, साधूनां वन्दनेन च । न तिष्ठति चिरं पापं, छिद्रहस्ते यथोदकम् ॥१४२॥ पद्मिनी राजहंसाश्च, निर्ग्रन्थाश्च तपोधनाः । यं देशमुपसर्पन्ति, तत्र देशे सुखं भवेत् ॥१४३॥
तद्वन्दनेन महत् पुण्यं, भावनां भावयन्निति । 25 श्रीमुनि श्रीधराधीशो, वन्दितुं समुपस्थितः ॥१४४।।
D:\amarata.pm5\3rd proof