________________
ऋषिदत्ताचरित्रे प्रथमोल्लासः ॥ ]
तांस्त्रिः प्रदक्षिणीकृत्याऽलीके कृत्वा करद्वयम् । तदेकाग्रमना भूपः पादाब्जं प्रणनाम सः ॥ १२२॥ वदान्य-धन्य-राजन्य-सुजनाऽमृतवर्षिणीम् । व्यधत्त देशनां सूरिः साराऽऽसाराऽनुसारिणीम् ॥ १२३॥ “द्वावेव धर्मों स्वाऽऽख्यातौ विख्यातौ भुवनत्रये । वीतरागैर्महाभागैर्जरा-मृत्युविमुक्तकैः ॥१२४॥
साधूनां सत्वबन्धूनां, प्रथमः प्रथितः पृथक् । श्रद्धावतां च श्राद्धानामद्वितीयो द्वितीयकः " ॥१२५॥ यं प्राप्य बहवस्सिद्धास्सेत्स्यन्ति च तथा परे ।
सिद्धयन्ति समये ह्यस्मिन् तद्धर्मस्य विजृम्भितम् ॥१२६॥ यतः- आधारो यस्त्रिलोक्या जलधि- जलधराऽर्केन्दवो यन्नियोज्या, भुज्यन्ते यत्प्रसादा-दसुर - सुर-नराधीश्वरैः सम्पदोऽपि । आदेश्या यस्य चिन्तामणि- सुरसुरभी-कल्पवृक्षादयस्ते,
तुलया तोलनं मेरोः, पयोधेस्तरणं करैः । अयोमययवानां च, स्वादो मदनदन्तकैः ॥ १२८॥
सोऽयं श्रीजैनधर्मः किसलयतु सतां शाश्वत श्रीविलासम् ॥१२७॥ [ ]
[ स्रग्धरा ] 15
कृपाणक्रमणं पद्भ्यां, वालुकाकवलाऽशनं । सत्वानां दुःकरं यद्वत्, तथा चरणपालनम् ॥१२९|| [युग्मम् ] जन्तुरेकदिनं यः स्यात् प्रव्रज्यासमुपागतः ।
स यद्याऽऽप्नोति नो मोक्षं, तदा वैमानिको भवेत् ॥१३०॥ प्रकरणे च - [ उपदेशमालायाम् ]
एगदिवसं पि जीवो, पव्वज्जमुवागओ अनन्नमणो ।
जइ वि न पावइ मुक्खं, अवस्स वेमाणिओ होइ" ॥१३१॥ [ उप.मा./९०]
श्रुत्वैवं साधुधर्मं तं कटुवृक्षसदृक्षकः ।
भवोऽयं भव्यभूपेन भावितो भगवद्गिरा ॥१३२॥
[ ११९
१. आदेशकारिणः । २. निष्पादयतु ।
D:\amarata.pm5\3rd proof
5
10
20
25