________________
११८]
[ऋषिदत्ताचरित्रसंग्रहः ॥ निर्मानुषां महामार्गामटवीमुत्कटामटन् । क्रमाभ्यां क्रमशः प्राप श्रीवासं नाम पत्तनम् ॥११०।। [सप्तभिर्विशेषणं] तत्राऽनवद्यमुद्यानं, विद्यते नन्दनोपमम् । चम्पकाऽशोकपुन्नाग-रङ्गन्नारिङ्गरिङ्गितम् ॥१११।। जम्बीर-बीजपूरक-पूगद्रुमनोहरम् ।। सहकार-सदाकार-कारस्करपरीवृतम् ॥११२।। तमाल-ताल-हिन्ताल-प्रियाल-प्रगुणीकृतम् । श्रीलाङ्गलि-लविङ्गैला-लावली-कदलीश्रितम् ॥११३।। यन्त्रधाराजलक्रीडा-दीर्घिकादीप्तदिङ्गमुखम् । वापी-कूपादिविश्रामस्थानप्रादुर्भवत्सुखम् ॥११४॥ [चतुर्भिः कलापकम्] सत्कृतो वनपालेन, रूपश्रीविजितस्मरः । त्रपा-कृपावाँस्तत्रैव, विश्रान्तोऽस्ति नरेश्वरः ॥११५।। सर्वसङ्गपरित्यागाज्जिघृक्षुव्रतमात्मना । यावद् दिशो निरीक्षेत, गुर्वागमनहेतवे ॥११६।। तावत् कुतश्चिद् गुरवस्तत्र पादावधारिताः ।
इष्टं वैद्योपदिष्टं चेत्ययमाभाणकोऽभवत् ॥११७।। ते कीदृशाः ?"बोधयन्तो महासत्वान् , दिशन्तो धर्मदेशनाम् । हरन्तः संशयान् सर्वान् , चरन्तोऽपीर्ययाऽऽर्यया ॥११८॥ प्राज्ञेऽप्राज्ञे नगे द्रङ्गे, मित्रे शत्रौ तृणे स्त्रियाम् । मुक्ता-मृत्सु द्विषत्सु सत्सु, सुमशय्या-दृषत्स्वपि ॥११९।। रङ्के राजनि मणौ लोष्टे, मुक्तादाम्नि सरीसृपे । पयःपयोऽयस्स्वर्णेषु, निविशेषा मनीषिणः ॥१२०।।
जैनधर्मधुराऽऽधारा, धर्ममूर्तिमुनीश्वराः । तत्रैव समवासाघुर्मासकल्पविहारिणः" ॥१२१॥ [चतुभिर्विशेषकम्]
15
20
25
१. वृक्षः । २. राजादनी । ३. नारिकेल । ४. चारोउली । ५. इर्यासमित्या ।
D:lamarata.pm5\3rd proof