SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रे प्रथमोल्लासः ॥] [१२१ अवरोधवधूभिश्च, श्रेष्ठि-सामन्त-मन्त्रिभिः । चरच्चिरण्टिचेटीभिः, छेकलोकैः परीवृतः ॥१४५।। मुनिं निरूप्य संतुष्यन्ननंसीत् महीपतिः ।। तांस्त्रिप्रदक्षिणीकुर्यात् तन्वन् विनयमष्टधा ॥१४६।। यद् आगमम्-[] "दटुं अब्भुट्ठाणं, आगच्छंताण सम्मुहं जाणं । सीसे अंजलिकरणं, सयणमासणढोयणं कुज्जा" ॥१४७॥[ ] "निविसिज्ज निसन्नेसुं , गुरूसु वंदणमुवासणं ताणं । जंताणं अणुगमणं, इय विणओ अट्टहा भणिओ" ॥१४८॥[] श्री उत्तराध्ययने च"नेव पल्हत्थियं कुज्जा, नेव सिज्जागओ य वि। आगम्मुक्कडओ संतो, पुच्छिज्जा पंजलीपुडो" ॥१४९॥ [ उत्त.१/१९] श्रीगुरोविनयं कुर्यात् , पृथ्वीश: श्रीधरस्तदा । 'विनयस्सद्गुणश्रेष्ठः सतां स्वाभाविको गुणः' ॥१५०।। यतः- “केनाऽञ्जितानि नयनानि मृगाङ्गनानां, को वा करोति विविधाङ्गरूहान् मयूरान् । कश्चोत्पलेषु दलसञ्चयमातनोति, को वा करोति विनयं कुलजेषु पुंस्सु" ॥१५१॥ [व०ति०] [ ] ततो धर्ममुनिः कुर्याद् , देशनां क्लेशनाशनीं । गम्भीरमधुरध्वानैर्जनोपकृतिहेतवे ॥१५२।। तथाहि- "दशदृष्टान्तदुःप्राप्यं, संप्राप्य नृभवं नवम् । कः प्रमत्तः प्रमादं वा, प्रतनोति प्रबोधितः ॥१५३।। दारुमध्ये यथा सर्जश्चिन्तारत्नं मणीष च । तथा भवेषु नृभवः, श्रुणु तत्र निदर्शनम् ॥१५४॥ द्विलक्षयोजनोन्मानजम्बू-लवणनीरधेः । पूर्वाऽपरककुब्भागे युग-शम्ये च संस्थिते ॥१५५।। १. अन्तःपुर । २. तरुणी । ३. उपासनैतेषां । ४. यान्तामनुगमनं । ५. धूसरसमिल । D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy