SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ 10 १९६] [ऋषिदत्ताचरित्रसंग्रहः ॥ पत्तिः पदातिमभ्येति, रथस्थो रथिनं जनम् । तुरङ्गसादी तुरङ्गं नीतियुद्धमभूदिति ॥८७।। एनं कुमारः प्रोवाच, करे कुर्वायुधं स्वयम् । रे ! सङ्ग्रामसरोभेक ! विवेकविकलाशय ! ॥८८॥ 5 इत्युक्त्वा किरणं दत्वा, कुमारः कलया तया । नाम्नाऽरिदमनं भूपं, जीवन्तं च तमग्रहीत् ॥८९।। यदुक्तम् -माघे [६/६२] "उपचितेषु परेष्वसमर्थतां, व्रजति कालवशाद् बलवानपि । तपसि मन्दगभस्तिरभीषुमान् , न हिमहाहिमहानिकरो भवेत् [ रोऽभवत्"]॥१०॥ [द्रुतवि०] "समय एव करोति बलाबलं, प्रति(णि )गदन्त इतीव शरीरिणाम् ।। शरदि हंसरवाः परुषीकृत-स्वरमयूरमयू रमणीयताम्" ॥९१॥ [माघ० ६/४४ ] तं कत्यपि प्रयाणानि, सममादाय सोऽमुचत् । सोऽपि वैराग्यमापन्नः, सत्रपः, सकृपो नृपः ॥९२।। 15 चिन्तयति चित्तेऽसौ, किं कुर्वेऽहमतः परम् । एकाक्यहं कथं यामि, साम्राज्यं पालयामि किम् ॥९३।। संसारोऽसावसारोऽस्ति, सन्ध्याभ्रमिव जीवितम् । विद्युद्विलसितं रूपं, यौवनं जलबिन्दुवत् ॥९४|| जानन्नषि पुरा चीर्णं, स्वदुःकर्मविजृम्भितम् । 20 साम्राज्यं नरकाऽन्तं तत् पालयेत् कः सुधीरपि ॥९५।। यतः- दशशूनासमश्चक्री, दशक्रिसमो ध्वजः । दशध्वजसमा वेश्या, दशवेश्यासमो नृपः ॥१६॥ [ ] "एतानि तानि धन-यौवनगर्वितानि, मिष्टान्न-पान-शयनाऽसनलालितानि । हारार्धहारमणिकङ्कणभूषितानि, भूमौ लुठन्ति कुथितानि कलेवराणि ॥१७॥ [वसन्ततिलका][ ] १. 'किरणं' इति शब्दो झम्पार्थे स्यादिति भाति । २. परुषी-कठोरीकृतस्वरं मयूरमयुः रमणीयताम् , इति सन्धिविच्छेदः कार्यः । D:lamarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy