SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रे प्रथमोल्लासः ॥ ] [ ११५ उष्ट्रभारे समुत्तार्यमाणे पटकुटीषु च । ताड्यमानासु सुदृढं, स्यन्दनोन्मुक्तगोव्रजे ॥७५॥ कुम्भिषु स्तम्भमानीयमानेषु च निषादिभिः । तुरङ्गमेष्वपर्याणीक्रियमाणेषु सादिभिः ॥७६॥ भूपस्वर्णरथेनाऽपि मणि-मौक्तिकमण्डितम् । सिंहासनमलङ्कृत्य सहकारतले स्थितम् ॥७७|| तस्मिंश्च समयेऽकस्मात् कश्चिद् दूतस्समागतः । जजल्प निर्विकल्पस्तं श्रुणु स्वर्णरथ ! प्रभो ॥७८॥ नानाऽरिदमनोन्मादो ममाऽरिदमनः पतिः । मन्मुखेन सुखेनैवं त्वां समादिशति स्फुटम् ॥७९॥ कर्तुं न युज्यते तेऽत्र, यदस्मद्देशसीमनि । प्रवेशः सैन्यवासश्च, मा स्थास्त्वं पुरतो व्रज ॥८०॥ अथ स्वर्णरथोऽवादीत् 'त्वरितं त्वन्नृपस्त्वया । प्रेषणीयः प्रविज्ञाप्य', प्रत्युक्तमिति मद्वचः ॥८१॥ तावदेव स्थितोऽस्म्यत्रेत्युक्त्वा दूतं विसृष्टवान् । ततो दूतः कुमारोक्तम् गत्वा व्यज्ञपयन्नृपम् ॥८२॥ श्रुत्वाऽरिदमनः स्वामी, सन्नद्धस्तं नृपं प्रति । तद्वचोवीचिविक्षिप्तो यानपात्रमिवाऽचलत् ॥८३॥ तुरङ्गमखुरोत्खातरेणुकोत्कीर्णमम्बरम् । मत्वा श्रुत्वा च तद्वाह्याडम्बरं सोऽभ्यजङ्गमीत् ॥८४॥ मौलिं मालवनायको नमयति, स्वामङ्गुलिं जाङ्गलः, स्वामी कृन्तति दक्षिणक्षितिपतिर्गृह्णाति दन्तैस्तृणम् । सिन्धौ सिन्धुपतिर्निमज्जति, नगोत्सङ्गे च वङ्गेश्वरः, श्रुत्वा यस्य नरेश्वरस्य सहसा प्रस्थान भेरीस्वनम् ॥८५॥ [शार्दूल०] अदैन्यसैन्ययोरेवं, मिथो मिलितयोस्तयोः । नदत्सु रणतूर्येषु, दारुणोऽथ रणोऽभवत् ॥८६॥ D:\amarata.pm5\3rd proof 5 10 15 20 25
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy