SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 ११४] [ ऋषिदत्ताचरित्रसंग्रहः ॥ "जम्मंतीए सोगो, वडुंतीए वड्ढ चिंता । परिणीयाए दुक्खं जुवइ पिता दुक्खिओ निच्चं " ॥६५॥ [ गा.स./८११ ] नियघरसोसा(सो) परगेहमंडणी, कलिकलंककुलभवणं । जेहिं न जाया धूया, ते सुहिया जीवलोगम्मि ॥६६॥[] चिन्तयित्वेति ‘हुं’ ज्ञातं, राज्ञो हेमरथस्य च । सुकुमारः कुमारश्रीरस्ति स्वर्णरथस्सुतः ॥६७॥ अस्या आस्यप्रशस्याया, भर्ता भूयात् स एव हि । स्यादत्राऽऽभाणकस्सत्यो, 'रत्नं रत्नेन योजयेत्' ॥६८॥ मन्त्रिभिस्समालोच्य तस्मै दूतं विसृष्टवान् । हर्षप्रकर्षात् स प्राप्तः, पत्तने रथमर्दने ॥६९॥ गत्वा 'विज्ञपयेत् भूपं, नत्वैवं' नृपसुन्दरः । ईहते त्वत्सुतं, पुत्रीपाणिपीडनहेतवे ॥७०॥ शुभक्षणे क्षणेनाऽसौ, करग्रहणहेतवे । दूताऽऽहूतस्सुतः पित्रा कौबेरीं प्रति चालितः ॥७१॥ समारूढः सुतो वेगादतितुङ्गतुरङ्गमे । ढक्कामदापयद् राजा, प्रयाणसमये ततः ॥७२॥ प्रयाणसमयः कीदृश: लाटः स्विद्यल्ललाटः, कटुरटनपटुर्भोटभूपः प्रदाता:, कर्णाटः भूःकपाटं, मुखतटघटितस्वाङ्गुलिर्जाङ्गलेन्द्रः । नश्यद्रङ्गः कलिङ्गः, कुरुरुरुविनयो, मालवः कालवक्त्रस्त्यक्तौजा गूर्जरेन्द्रः, समजनि जयिनस्तस्य राज्ञः प्रयाणे ॥७३॥ [स्रग्धरा] ततः शनैरविच्छिन्नप्रयाणैः प्रस्थितः पथि । सीमान्तभूपभूमीषूत्ततार सबल द्विधा ॥७४॥ १. कुमारः स्वामिकार्तिकेयः, तद्वत् श्रीः शोभा यस्य सः । अथवा कुः अवनिः तस्यां मारः कन्दर्पः, तद्वत् श्रीः वपुर्लक्ष्मीः यस्य सः । २. उखाणो - कहेवत इति भाषायाम् । ३. लाटादि देशवाचीनाम । ४. सबल :- सह वर्तते शरीरबलेन - सैन्येन इति सबल:- शरीरशक्तिमान्, सैन्यसामर्थ्ययुक् चेति द्विधा । D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy