________________
११२]
[ऋषिदत्ताचरित्रसंग्रहः ॥ निष्णातस्समभूत् छन्दो-ऽलङ्कृति-व्याकृतिष्वसौ । प्रमाणेऽप्रमितप्रज्ञः, प्रगुणो गणकेऽपि वा(च) ॥४६॥ [युग्मम्] द्वात्रिंशल्लक्षणज्ञेन प्राज्ञेन सरलात्मना ।
अधीता धीमता तेन द्वासप्ततिकलाः पुनः ॥४७।। 5 ताश्चेमाः
लिखित-पठित-सङ्ख्या,-गीत-नृत्यानि तालाः, पटह-मरुज-वीणा, वंश-भेरीपरीक्षा । द्विरद-तुरंगशिक्षा-धातु-टेग्-मन्त्रवादाः, वलि-पलितविनाशो रत्न-नारी-नृलक्ष्म ॥४८॥ [मालिनी०] छन्दस्तर्क-सुनीति-तत्त्व-कविता-ज्योतिः-श्रुति-वैद्यकम् , भाषा-योग-रसायनांऽजन-लिपि-स्वप्नेन्द्रजालं कृषिः । वाणिज्यं नृसेवनं च शकुनं, वार्यऽग्निसंस्तम्भनं, दृष्टि-लेपन-मर्दनोज़गतयो-बन्धभ्रमौ द्वौ घढौ(टौ) ॥४९॥ [शार्दूल०] पत्रच्छेदन-मर्मभेदन-फलाऽऽकृष्ट्यम्बुवृष्टिज्ञता, लोकाचार-जनानुवृत्ति-फलभृत्-खड्ग-क्षुरीबन्धनम् । मुद्रा-ऽयो-रद-काष्ठ,-चित्रकृति-दो-दृग-मुष्टि-दण्डा-ऽसि-वाग्युद्धं, गारुड-सर्प-भूतदमनं, योगा-ऽब्द-नामालयः ॥५०॥ [शार्दूल०] इत्यसौ पाठितः पुत्रः, पित्रा राज्यहितैषिणा । विद्यया वर्धते वृद्ध्या, वयसा यौवनेन च ॥५१।। इतश्चोत्तरदिग्भागे श्रीविलासाऽमरावती ।। पुरी गरीयसी ऋद्ध्या, कौबेरी नाम विश्रुता ॥५२।। तत्राऽनुशास्ति साम्राज्यं, राजा श्रीसुरसुन्दरः । तस्याऽऽस्ते वासुला पट्टपत्नी प्रेमवती प्रिया ॥५३।। प्राञ्चत्पञ्चविधाऽऽभोगान् , भोगान् भुञ्जानयोस्तयोः । सुता सुजाता सञ्जाता, रुक्मिणी नामतस्ततः ॥५४॥
५३
25
१. छन्दो वसन्ततिलकादि, अलङ्कार उपमादि, अष्टादशव्याकरणेषु । २. ७२ कलाः । ३. कुलीना। ४. प्रसवी।
D:\amarata.pm5|3rd proof