SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रे प्रथमोल्लासः ॥] [१११ धात्रीभिर्लाल्यमानोऽसौ समभूत् पञ्चहायनः । पित्राऽस्य चिन्तिता लेखशालाकरणयोग्यता ॥३४॥ पूर्वं तैलाभिषिक्तोऽसौ, विधिप्रथितमज्जनः । क्लृप्तदिव्यांऽशुकाऽऽकल्पः प्रणताऽनेकसज्जनः ॥३५॥ महाऽगण्यसद्रत्नप्रयत्नकृतशेखरः । हाराऽर्धहार-केयूर-मुद्रिकाऽङ्गदमण्डनः ॥३६।। संसृष्टमङ्गलाचारः, कृतशान्तिक-पौष्टिकः । शुभक्षणे कृताऽक्षीणक्षणः स्फारसमीक्षणः ॥३७।। पवित्रशतपत्रादिसुमनोदाममण्डितः । धृताऽऽतपत्रः श्रीपात्रं, सश्रीकश्रीकरीश्रितः ॥३८।। चलच्चामरयुग्मेन वीज्यमानस्फुरत्तनुः । गर्जद्गजसमासीनः सुमनस्सत्परिच्छदः ॥३९।। सत्यजात्यमहामात्य-भृत्य-सामन्तसङ्गतः । श्रेष्ठश्रेष्ठिविशिष्टेष्ट-प्रकृष्टस्पष्टवैभवः ॥४०॥ गीयमानः कुलस्त्रीभिः, पीयमानः पुरन्ध्रिभिः । बन्दिभिः स्तूयमानश्च, वर्ण्यमानश्च वेदिभिः ॥४१॥ भेरिभुङ्गलभातारैः, स्फारनि:स्वाननिस्वनैः । प्रोत्तालतालकंसालैः, स्वरमण्डलमण्डलैः ॥४२।। रणत्तूरमहापूरपटहप्रकटारवैः । श्रृङ्गो पाङ्गैर्मृदङ्गादिनृत्यन्नर्तकपेटकैः ॥४३।। नानाऽनवद्यवाद्यौघाऽऽडम्बरैर्गर्जदम्बरैः । पित्राऽयं स्थापितो लेखशालायां नव्यलेखवत् ॥४४॥ [दशभिर्विशेषकम्] उपाध्यायान्तिकेऽभाणीत् शस्त्र-शास्त्रकला: कलाः । विदग्धः सर्वविद्यायां चाणाक्ये चतुराशयः ॥४५।। १. आभूषणः वेषभूषा वा । २. कृताः अक्षीणाः क्षणा:-उत्सवाः यस्मै सः । ३. दर्शनः । ४. निशानडंकानो अवाझ । ५. सींगु । ६. उपांगवाद्यैः । ७. समूहैः । ८. लेखशालायांछात्रपठनशालायां पक्षे देवसभायाम् । देवाः....लेखाः....। [अ.ना.मा.१-८८] ९. नव्यो यो लेखोदेवो, देवैः संभूय यथा स्थाप्यते । D:\amarata.pm53rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy