SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ११०] [ऋषिदत्ताचरित्रसंग्रहः ॥ शची सुरवरेन्द्रस्य, स्त्रीरत्नं चक्रवर्तिनः । यथा श्रीः पद्मनाभस्य, तद्वामाङ्गे तथैव सा ॥२२।। [षड्भिः कुलकम्] भुङ्क्ते पञ्चविधान् भोगान् , तया सार्धं महीपतिः । यौवने सुरतक्रीडा-हावभावादिरञ्जितः ॥२३॥ अजीजनत् क्रमात् राज्ञी पत्रं स्वर्णरथाभिधम् । नवमासैः कृतोल्लासैः सार्धसप्तदिनाधिकैः ॥२४॥ यथा प्राची सहस्रांशुं रत्नं वैडूर्यभूरिव । षण्मुखं सिंहयाना वा षड्बिन्दुं देवकी यथा ॥२५।। यतः- “यत्र न स्वजनसङ्गतिरुच्चैर्यत्र नो लघुलघूनि शिशूनि । यत्र नैव गुरुगौरवपूजा, हन्त तान्यपि गृहाण्यगृहाणि" ॥२६॥ [ ] [स्वागता] उत्पतन् निपतन् रिङ्खन् , हसन् लालावलीर्वमन् । कस्याश्चिदेव धन्यायाः, क्रोडमायाति नन्दनः ॥२७॥ જં જં નિયમુખિ ઉલ્લવઈ, તે તે સુયણ સુહાઇ વયણવિણિજ્જિય ચંદલઉં,રૂપિ મયણ અવતાર ૨૮ [ દૂહો] अप्पम २७G, हेमी ४२५६ छन्। તિણિ પરિ રાજા નિયÉયર, દેખી ધરઈ આણંદ રેલો [ દૂહો ] ततश्च- अकार्षीत् समये राजा, कुमारजननोत्सवम् । अहार्षीदथिनां नैं:स्व्यं, मनश्चिन्तितदानतः ॥३०॥ चरीक्रत्यर्थनां येऽस्य, तत्कार्याणि सरीस्रति । नरिनर्तन्ति नर्तक्यो, गीतं गायन्ति गायनाः ॥३१॥ पठन्ति बन्दिसन्दोहा, वेदोच्चारं द्विजा व्यधुः । लोकम्पृणं कुलस्त्रैणं, प्रदत्ते मङ्गलाऽऽशिषः ॥३२॥ मणि-माणिक्य-मुक्तानां, निचयाः सिचयोच्चयः(याः) । तेषां दानानि दीयन्ते, गजा-ऽश्व-कनकादि च ॥३३॥ 15 20 १. कार्तिकेयम् । २. पार्वती । ३. कृष्णम् । ४. दरिद्रता । ५. लोकहितं । ६. कुलस्त्रीवृन्दं । D:\amarata.pm5|3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy