________________
ऋषिदत्ताचरित्रे प्रथमोल्लासः ॥]
[१०९ लक्ष्मी-जीवित-यौवनानि चपलान्यस्मदुकूलावलेरग्राणीव भवेऽत्र भो ! स्तदमुकैः किं मुह्यते कोविदाः [दैः?] । मा कृद्धं(ध्वं) वृजिनं जिनस्य च परं धर्मं कुरुध्वं द्रुतं, यत्रैवं नु विहारकेतुनिकरो वावक्ति घण्टारवैः ॥१४॥ [शार्दूल०] तत्र हेमरथो राजा नाम्ना हेमरथप्रथः । दोगुन्दक इव प्राज्यं साम्राज्यं परिपालयेत् ॥१५।। कलङ्कविसमायुक्तमत्रिजातत्वसंयुतम् । एनं कुवलयानन्दं राजानं को न मन्यते ॥१६।। ऐरावतोपमोत्तुङ्गमत्तमातङ्गगामिनी । बभूव प्रेयसी तस्य सुयशा नाम कामिनी ॥१७॥ हीरहार-हर-क्षीर-नीरोज्ज्वलयशस्विनी । सुमनःसुमनःश्रेणिमाननीया मनस्विनी ॥१८॥ हृद्ध्यातयतना[?]ऽकार्याऽनार्यसङ्गनिवर्तिनी । दान-शील-तपो-भाव-पुण्यमार्गप्रवर्तिनी ॥१९॥ अर्हत्-साधु-कृपा-धर्म-भर्तृभक्त्यनुरागिणी । संपन्नीति-मति-स्फूर्ति-राज्यश्रीसहचारिणी ॥२०।। विश्वविश्वस्फूरद्रूपरम्भारामानुकारिणी । विद्या-कला-सदाचार-विलासगुणधारिणी ॥२१॥
१. कलं मनोज्ञं यथास्यात्तथा । कविभिः समायुक्तम् । चन्द्रपक्षे-कलङ्केन विसमायुक्तम् । २. न त्रिजातत्वम् अत्रिजातत्वं-कुलीनत्वं, तेन सहितम् । चन्द्रपक्षे- अत्रिः ऋषिः तज्जातत्वंतदुत्पत्तिमत्वं तेन । ३. कुवलयं-भूमण्डलमानन्दयतीति कुवलयानन्दः तम् । चन्द्रपक्षे-कुवलयंचन्द्रविकासिपद्मं, तस्य आनन्दं-हर्षकरम् । ४. राजानं-हेमरथनामानं । पक्षे राजानं चन्द्रम् । ५. को नाङ्गीकुर्यात् अपि तु सर्वोऽपि । ६. हीराणां-वज्ररत्नानां हारः, हर:-शङ्करः, क्षीर:-क्षीरसागरः तस्य नीरम् , हीरहारहरक्षीरनीरं इव उज्ज्वलं यशः अस्याः सा । ७. सुमनः शोभनं मनः येषां ते सुमनसः, सुमनसः ते च सुमनसः सुमनःसुमनसः, तेषां श्रेणिः सुमनःसुमनश्रेणिः, तैः माननीया । ८. विश्वे-समग्रे विश्वे-जगति स्फुरद्रूपं यस्या सा, तथा रम्भा नाम्नी देवानां रामा, तामनकर्तुं शीलं यस्या सा, ततः द्वयोः पदयोः कर्मधारयम् ।
D:\amarata.pm5|3rd proof