SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १०८] [ऋषिदत्ताचरित्रसंग्रहः ॥ यं दृष्ट्वा स्पष्टरूपं प्रबलतरमहानागराजाऽऽतपत्रं, पात्रं मोदाच्च पद्माविपुलकुवलयाम्भोरुहोत्फुल्लनेत्रम् । कम्रानम्राप्सर:श्रीभुजगपतिवधूवृन्दसंप्रार्थ्यसेवः, सोऽयं श्रीआश्वसेनिः प्रभवतु भविनां भूतये पार्श्वदेवः ॥५॥ [स्रग्धरा ] नश्यन्त्याधिविरोधरोधविपदो यत्संस्तवाद् वास्तवात्(द्), व्याघ्र-व्याल-जला-ऽनला-ऽनिलमहाविघ्नव्रजं क्षीयते । भुज्यन्तेऽत्र गजेन्द्र-वाजिसहितास्साम्राज्यभोगिश्रियः, श्रीवीरः सुमतिर्मतङ्गजगतिर्जीयात् स्फुरत्पद्धतिः ॥६॥ [शार्दूल०] तान् नत्वा ऋषिदत्तायाश्चरितं कीर्तयाम्यहम् । शीलचिन्तामणिप्राज्यप्रभावोद्भावनर्द्धये ॥७॥ [श्लोक] तथाहि- जम्बूद्वीपेऽत्र सत्पात्रे, क्षेत्रे भरतनामनि । मध्यदेश: क्षतक्लेशः, श्रीवासस्तत्र विद्यते ॥८॥ धराधराऽनुकारैकप्रौढप्रासादसुन्दरम् । अभ्रंलिहगृहव्यूहहसितामरमन्दिरम् ॥९॥ रम्भाऽऽरामपुरग्रामपल्वलैः प्रगुणीकृतम् । व्यवहारिमनोहारिसमाजसमलङ्कृतम् ॥१०॥ अगण्यपूण्यसदवर्ण्यपण्याऽऽपर्णाऽऽपणाश्रितम । लावण्यऽऽकीर्णकारुण्यतारुण्यतरुणीभृतम् ॥११।। अनेकाऽनेकपाकीर्णरङ्गत्तरतुरङ्गमम् । प्रौढप्रतोलीप्राकारप्रोद्यत्प्रत्यर्थिदुर्गमम् ॥१२॥ सुरसाऽर्थसमायुक्तं सद्गुरुं स्फुरदीश्वरम् । पत्तनं वर्ण्यते स्वर्गापमानं रथमर्दनम् ॥१३।। १. पद्मावतीदेवी । २. शोभनाः रसाः येषां येषु ते, तैः सुरसैः अर्थैः समायुक्तम् । स्वर्गपक्षे सुरसाथै :-गीर्वाणगणैः समायुक्तम् । ३. सन्तः गुरवः साधवो यत्र सुसाधुयुक्तमित्यर्थः । सुवर्णपक्षे सद्गुरुः सुराचार्यः यत्र । ४. स्फुरन्तः प्रभावशालिनः ईश्वरा:-श्रीमन्तो यत्र । स्वर्गपक्षे स्फुरन् ईश्वरः यत्र । D:\amarata.pm5|3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy