________________
ॐ नमः॥
अज्ञातकर्तृकं ऋषिदत्ताचरित्रम् ॥
प्रथमोल्लासः ॥ ॥ ०॥ श्रीमन्नम्रनरेशमौलिमुकुटश्रेणीमणीमण्डना,
ज्योतिःस्वस्तटिनीप्रवाहसलिलप्रक्षालितांहिद्वया । प्राञ्चत्काञ्चनपञ्चमेरुसुमनःसन्दोहसंसंश्रिता, भूयाद् भद्रकभाविनां भगवती श्रीपञ्चतीर्थी श्रिये ॥१॥ [शार्दूल०] रङ्गभृङ्गतरङ्गमागधमहातीर्थोदकैर्मोदकैः, स्फू द्योजनमाननालकलशैर्यश्चाभिषिक्तः सुरैः । नृत्यन्तीन(नृत्यत्पीन)पयोधरोद्धरधुराऽऽनम्राप्सरोभिः स्तुतो, मेरौ जन्ममहोत्सवे स वृषभः पायादपायात् प्रभुः ॥२॥ भूत-प्रेत-करालकाल-विलसद्वैताल-काल-ज्वरध्वान्त-भ्रान्तनिशाचरी-वनचरी-दुर्याकिनी-शाकिनीः । शक्तिी: शक्तिमती: पिशाचविततीर्दुष्टाऽमरी: पामरी:, शान्तत्वं नयति स्फुरन्नयततिः श्रीशान्तिनाथस्मृतिः ॥३॥ उत्फुल्लोत्पलकोमलोज्ज्वलदलश्यामाय, रामामन:केलीकेलिगृहैकनिर्मलगुणग्रामाय, पुण्यात्मने । स्फू द्यादववंशमानससर:श्रीराजहंसश्रिये, श्रीनेमिप्रभवे भवेष्टविलसद्पाय भूयान्नमः ॥४॥
१. अनिष्टकरीः।
D:\amarata.pm5\3rd proof