________________
क्षेत्र-स्पशनाप्रकरणं यावच्छ्रीवीरस्वामिनस्तीर्थं तावन्नन्दतु, भव्यजननयन-वदन-मानसादीन्यनवद्यान्याधाराण्यवाप्येति शेषः ॥३२-३३||
वीराब्दे हयनारदनदीशनयनाङ्किते ।। प्रणीतं प्रेमसूरीश-गच्छेशकृपया त्विदम् ॥१॥ संशोधितं तु तैः पूज्यैः, पूज्यैः प्रज्ञावरैस्तथा । जयघोषमुनिप्रष्ठै-धर्मानन्दादिसाधुभिः ॥२॥ आदौ मध्येऽन्त्ये वा, कुत्राप्यत्र सविवेचने ग्रन्थे यज्जिनवचनातीतं किमपि स्याद्रवतु तन्मिथ्या ॥३॥
"इइ रइय"मित्यादि, अस्य चान्वय उत्तरगाथोत्तरार्धे 'खित्तफुसणापगरणं' इत्यादिना, तथा च "इति"-तदेवं चतुःसप्तत्युत्तरशतमार्गणास्थानेषु नानाजीवाश्रयक्षेत्र-स्पर्शनाकथनद्वारेण श्रीमत: सकलागमरहस्यवेदिनः परमज्योतिर्विदः स्वगुरो-विजयदानसूरिप्रभोः सकाशात् समवाप्त-'सिद्धान्त-महोदधी'त्युपाधीमतां 'सुण्णायकम्मसत्थाणं' ति सुष्ठु-पूर्वापरसमालोचना-ऽऽगुणन-परप्रपाठनादिना प्रकारेण ज्ञातानि-अवगतान्यर्थतः कर्मशास्त्राणि-कर्मप्रकृति-शतकपञ्चसंग्रहप्रभृतीनि यस्ते सुज्ञातकर्मशास्त्रास्तेषां सुज्ञातकर्मशास्त्राणां 'तवगच्छखे रवीणं' ति तपोगच्छ: प्रतीतः स एव खम्अम्बरमिवाऽम्बरम्, भवति हि तपोगच्छ: खोपमः, तत्र सूर्य-चन्द्र-ग्रह-नक्षत्रादिकल्पानां ज्ञानादिद्युत्या स्वं परं चाज्ञानतमोभरे बम्भ्रम्यमाणं भव्यगणं प्रकाशयतां नैकानामाचार्योपाध्याय-वृषभ-गणावच्छेदकप्रमुखाणां सततं स्वचयाँ चरतामुपलम्भात् । तस्मिन् तपोगच्छखेरवय:-भास्कराः, तेषाम्, एवम्भूतानां 'रज्जे सिरिपेमसूरीणं' ति श्रीमतां प्रेमसूरीणां 'राज्ये' साम्राज्येशासने प्रवर्तमाने 'ताण' त्ति तेषां पूज्यपादानां "पसीसाण" त्ति प्रशिष्याणां शिष्यशिष्याणाम्, तत्र प्रेमसूरीश्वरपूज्यपादानां स्वशिष्याः सुविख्यातनामधेयाः स्वात्मसाधनाऽविकलभव्यजन्तुहितकरानेकविधकुशलानुष्ठानपरायणा विपुलविनेयगणपरिवृता न्यायशास्त्रनिपुणाः पन्यास-श्रीमद्भानुविजयगणीन्द्राः, तच्छिष्यास्त स्वभावसरलाः प्रशान्तप्रकृतयः सौम्यवदनाः समाकृष्टान्तेवासिचित्तचकोरा: श्रीमन्त: पंन्यासा: पद्मविजयगणीन्द्राः । एतदेवाह-'पउमविजय' इत्यादि, तेषां पद्मविजयगणीन्द्राणां 'सीसलेसेण' त्ति समयोक्तशिष्यगुणानां यथावदभाजनतया नामशिष्यप्रायेण जगच्चन्द्र-विजयेन मुनिना रचितमिदं
|| इति स्वोपज्ञटीकाविभूषितं
क्षेत्रस्पर्शनाप्रकरणं समाप्तम् ॥
॥ शुभं भूयात्सर्वेषाम् ॥
६४