________________
मार्गणास्थाने यत्र पूर्वमुत्पादतो लोकासंख्यभागमात्रा, गमागमनत: समुद्घाततश्चाष्टौ रज्जव: स्पर्शना दशिता, तत्र आवश्यकचादिवचनाधिकारे गमनागमनतः समुद्घाततश्च सप्त रज्जव: स्यात्, उत्पादतस्तु लोकाऽसंख्येयभागमात्रैव, आवश्यकचूण्यांदिवचनादूर्ध्वलोकप्रथमरज्जौ सौधर्मादिकल्पाधिकरणे तत्त्वार्थाधिगमसूत्रान्मनुष्यक्षेत्राद्वहिरपि असंख्येयवर्षायुषां तिरश्चां सद्भावाधिकारे चोत्पादतो न लोकासंख्येयभागमात्रा, अपि तु एकरज्जुमाना स्यात्, मनुष्यलोकबहिस्तादपि क्षायिकसम्यग्दृशां प्रथमकल्पचरमप्रतरं यावदुत्पादस्य लाभात्, यदि चाऽत्रैव 'जघन्या त्वधस्तनानन्तरप्रस्तटगतोत्कृष्टा' इत्यादि-देवेन्द्रनरकेन्द्रस्तववृत्तिवचनात्सौधर्मप्रथमप्रस्तट एव देवानां जघन्या स्थितिरधिक्रियेत, न पुनः 'सव्वत्थ जहन्नओ पलिय' मित्यादि, एवम् 'ऊर्ध्वलोक एकोनविंशतिखण्डीकृतस्ततस्तस्य सम्बन्धिन्येकोनविंशभागे समधिके उडुविमानं वर्तते तिर्यग्लोकात्' इति चाधिक्रियेत तदा क्षायिकसम्यग्दर्शनमार्गणायामुपपातकृता स्पर्शना रज्जुसंख्येयभागमात्रा सम्पद्येत, द्विधा तु पूर्ववदेवेति दिग् । इति ॥३०॥
अथ सकषायजीवकृतां स्पर्शनामुपसंहरन्नकषायजीवकृतां च तामतिदिशन्नाह
इइ सकसाये जीवे.
पडुच्च फुसणाऽकसायजीवेऽत्थि । खित्तव्व समुग्धाया,
सट्ठाणाऽवि ण हवइ इयरा ॥३॥ "इइ", इत्यादि, 'इति'-एवमुक्तप्रकारेण सकषायजीवान् प्रतीत्य
स्पर्शनाऽस्ति, न पुनरकषाय-जीवानधिकत्यापीत्यर्थः । तर्हि अकषायजीवानधिकृत्य सा कियती भवेदित्याह-"उकसायजीवे" इत्यादि, 'पडुच्च फुसणा' इतीहापि सम्बध्यते, तथा चाकषायजीवान् प्रतीत्य स्पर्शना "खित्तव्व" त्ति क्षेत्रवद्भवति, यथा 'अकसाये अहिकिच्च उ ते जत्थऽत्थि तहि सव्वत्थ ॥१०॥ लोगस्स असखंसो सट्ठाणाओ' इत्यादिना सार्धगाथाद्वयेनाऽक-षायजीवानां स्वस्थानतः समुद्घाततश्च लोकाऽ-संख्येयभागादिमानं क्षेत्रं भणितम्, अन्यत्तु निषिद्धम, तथाऽकषायान् जीवानधिकृत्य स्वस्थानतः समुद्वाततश्च लोकासंख्येयभागादिमाना क्षेत्रतुल्या स्पर्शना वक्तव्या, अन्यथा-उपपातादितस्तु प्रतिषेध्येत्यर्थः । एतदेव स्पष्टयन्नाह-"समुग्धाया" इत्यादि, गतार्थम् ।
इह यद्यपि मनोयोगादिमार्गणास्वकषायजीवानां समुद्घातकृतक्षेत्रापेक्षया समुद्घातकृतस्पर्शना संख्येयगुणा भवति, तथाऽपि सा लोकासंख्येयभागमात्रा एव, परिपूर्णमनुष्यलोकादनुत्तरविमानेषु निक्षिप्तात्मदण्डानामपि लोकासंख्येयभागमात्राव-गाहनात्, तथा च निरपवादातिदेशोऽविरुद्ध एव, क्षेत्र-स्पर्शनानानात्वेऽपि 'लोकासंख्येयभाग' इत्येवंरूपाया वक्तव्यताया उभयत्र तुल्यत्वादिति । शेषं तु सुगममिति ॥३॥
अथोपसंहरन्नाहइइ रइयं सिद्धंतमहोदहि-सुण्णायकम्मसत्थाणं । तवगच्छखे रवीणं रज्जे सिरिपेमसूरीणं ॥३२॥ ताण पसीसाण पउमविजयगणिंदाण सीसलेसेण । खित्त फुसणापगरणं नन्दउ जा वीरजिणतित्थं ॥
६३