________________
सोहम्मआइग-जुगल
धम्मिय-ठाणाइवयणभेआओ। सयमेवोण्णेया खलु
तिहावि फुसणा इयरहा उ ॥३०॥ "सोहम्मआइगे" त्यादि, आदिपदादीशान-सनत्कुमारकल्पादीनां ग्रहणम्, "ठाणाइ" इत्यत: स्थानपदमिहापि सम्बध्यते, तथा च सौधर्मकल्पादिस्थान-युगलम्मिकस्थानानि, "ठाणाइ" इत्यत्राऽऽदिपदात्सौधर्मप्रतरेषु देवानां जघन्यस्थितिरित्येतत्प्रतिपादकानि यानि वचनानि तेषां 'भेदतः' विषयभेदात, विषयभेदं समाश्रित्येत्यर्थः । "इयरहा उ" त्ति 'इतरथा'-उक्तेतरप्रकारेण तु स्वयमेव 'उन्नेया' अभ्यूह्या उत्पादादिभेदभिन्ना त्रिविधस्पर्शना ।
अयम्भाव:-अनन्तरं 'सोहमम्मि दिवड्ढा' 'सव्वत्थ जहण्णओ पलिय"मित्यादिकं संदर्भमनसत्य देवगत्योधादिमार्गणास्थानेषु "देवेऽट्टपण-नवे"त्यादिना गमनागमनादिकृता स्पर्शनाऽष्टरज्ज्चादिमात्रा-ऽभिहिता, यानि पुनः 'रयणप्पभाए उवरिमतलाओ आरद्धं जाव सोहम्मो एस पढमो भागो, सोहम्मगाणं विमाणाणं उवर आरद्धं जाव सणंकुमारमाहिंदा एस बिइओ' इत्यादीनि तिर्यग्लोकाद्रज्जु-द्विर-ज्ज्चाद्यन्तरेण सौधर्मादिकल्पविमानस्थानानां प्रतिपादनपराणि आवश्यकचूादिवचनानि, यानि च 'ऊर्ध्वलोक एकोनविंशतिखण्डी-कृतस्ततस्तस्य संबन्धिन्येकोनविंशभागे समधिके उडविमानं वर्तते तिर्यग्लोकात' इति तिर्यग्लोकाद्रज्जुसंख्येयभागमात्रान्तरेण सौधर्मकल्पप्रारम्भप्रतिपादनपराणि, तथा 'जघन्या त्वधस्तनानन्तरप्रस्तटगतोत्कृष्टा स्थिति: सर्वत्र वाच्या' इति सौधर्मादिकल्पद्वयेऽनन्तराधस्तनप्रस्तटोत्कृष्ट-स्थितिप्रमाणा हि
तदुपरितनप्रतरजघन्या स्थितिः, न पुनः सर्वेषु प्रतरेषु जघन्या समेति प्रतिपादन-पराणि देवेन्द्रनरकेन्द्रस्तव-प्रकरणविवतिवचांसि, तथा "बाह्येषु'-मनुष्यक्षेत्राबहिर्ये वर्तन्ते द्विपा: समुद्राश्च तेषु तिर्यग्योनिजा असंख्येयवर्षायुषो भवन्ति' इति मनुष्यक्षेत्राबहिरपि असंख्येयवर्षायुषां युग्मि-तिरश्चां सद्भावं संगिरन्ति तत्त्वार्थाधिगमसूत्रवृत्तिवचनानि तान्यधिकृत्योक्तान्यथा लभ्यमाना उत्पादादिभेदभिन्ना स्पर्शना स्वयमेवाम्भूह्या । तद्यथा-उक्तावश्यकचूण्यादिवचनतस्तिर्यग्लोकात्पञ्चरज्ज्वन्तरेणा-ऽच्युतकल्पः, तथा च प्राग् यत्र गमनागमनत ऊर्ध्वलोकसम्बन्धिषड्रज्जुस्पर्शना कथिता तत्र साऽऽवश्यकचूादिवचनानुसारेण पञ्चरज्जुमाना द्रष्टव्या, अधोलोकसम्बन्धिनी तु प्रागिव रज्जुद्वयमेवेत्येवं चूादिवचनेन देवगत्योघ-भवनपति-व्यन्तरज्योतिष्कादिदेवभेदेषु पञ्चेन्द्रियौघादिमार्गणासु च यत्र गमनागमनतोऽष्टरज्जुस्पर्शना भणिता, तत्र सा सप्त रज्जवो भवति । अनेन वचनेन सौधर्मादिकल्पा एकादिरज्जवाधः स्थिताः, तथा च तेषूत्पादकृतस्पर्शना पूर्वोक्तस्पर्शनापेक्षया यथासम्भवमर्धरज्ज्वा रज्ज्वा न्यूना द्रष्टव्या । तद्यथा-सौधर्मेशानकल्पयोरेका रज्जुः, सनत्कुमार-माहेन्द्रयो रज्जुद्वयम्, ब्रह्मकल्पे सार्धरज्जुद्वयम्, लान्तककल्पे रज्जुत्रयम्, शुक्रकल्पे सार्धरज्जुत्रयम्, सहस्रारकल्पदेवौघयो रज्जुचतुष्टयम्, तेजोलेश्यायामेका रज्जुः, मति-श्रुतज्ञाना-ऽवधिद्विक-पद्मलेश्या-सम्यक्त्वौघ-क्षायोपशमिकसम्यक्त्वेषु चतस्रो रज्जवः । इत्थमेवान्यत्राप्यभ्यूह्या । इत्थमेव तत्त्वार्थवृत्त्यादिवचनान्तराण्यधिकृत्याऽपि प्रोक्तविलक्षणा स्पर्शना स्वयमेवोद्भावनीया, अस्माभिस्तु एकत्र मार्गणास्थाने दिगिति कृत्वा नानाविकल्पापन्ना संक्षेपतः प्रदीत, नान्यत्र, तद्यथा-क्षायिकसम्यक्त्व