________________
मइसुयणाण-अवहिदुग
सम्म-पउम-वेयगेसु उप्पाया । पण भागा दुविहा पुण,
भागा अद्वैव विष्णेया ॥२७॥ "मह" इत्यादि, मतिज्ञान-श्रुतज्ञानाऽवधिद्विक-सम्यक्त्वौघक्षायोपशमिकसम्यक्त्व-पद्मलेश्यालक्षणेषु सप्तमार्गणाभेदेषुत्पादात्
सनाड्याः पञ्चचतुर्दशभागाः स्पर्शना भवति, समस्ततिर्यक्प्रतरव्यापिनां सम्यग्दृष्टितिरश्चामुत्कृष्टतोऽष्टमकल्प एवोत्पादात् अष्टमकल्पस्य तिर्यग्लोकात्पञ्चरज्ज्वन्तरेण व्यवस्थितेः प्राग्दशितत्वाच्च । "दुविहा पुण" त्ति समुद्घात-गमनागमनकृता शेषद्विविध-स्पर्शना पुनः सनत्कुमारादिदेववत् त्रसनाड्या अष्टौ भागा विज्ञेयेति ॥२७||
एमेव खइय-उवसम___ मीसेसुं णवरि जगअसंखंसो । उप्पाया दुसु मीसे
ण समुग्घाया वि णेव भवे ॥२८॥ "एमेव खइय" इत्यादि, 'एवमेव' मतिज्ञानादिमार्गणास्थानवदेव क्षायिकसम्यक्त्वौ-पशमिकसम्यक्त्वसम्यग्मिथ्यात्वेषुस्पर्शना भवति, "णवरि" केवलं "दुसु"त्ति क्षायिकौपशमिक-सम्यक्त्वयोर्द्वयोर्मार्गणयोरुत्पादकृतस्पर्शना जगदसंख्येयभागमात्रा भवति, सा च क्षायिकसम्यक्त्वे मनुष्यलोकवर्ती क्षायिकसम्यग्दृष्टियग्मि-तिर्यगपेक्षया मनुष्यापेक्षया वा स्यात् । एवमेवौपशमिकसम्यक्त्वेऽपि विभावनीया, श्रेणौ भवान्तप्राप्तानामेव देवभवप्रथमसमये औपशमिक-सम्यक्त्वसम्भवात्, नान्येषामिति । शेषसमुद्घातगमनागमन-कृताष्टभागस्पर्शना तु प्रागिव
विज्ञेया । अन्यदपवादपदमाह-"मीसे ण" त्ति सम्यग्मिथ्यात्वे उत्पादात्स्पर्शना न भवति, न केवलमत्पादात, किन्तर्हि ? "समग्घाया वि णेव भवे" त्ति समुद्घातादपि नैव भवति स्पर्शना । कथम् ? मिश्रदृष्टिभावे जन्माभाववद् मरणाभावेन मारण-समुद्घातस्याऽभावादिति ॥२८॥
देसे उ समुग्धाया,
पणेव भागेयरा ण सासाणे । कमसोऽट्ठि-गार बारस
गमागमुप्पायओ समुग्धाया ।।२९।। "देसे" इत्यादि, देशसंयमे समुद्घातात् पञ्चैव भागास्त्रसनाड्यः स्पर्शना भवति, देशविरततिर्यग्जीवापेक्षया तल्लाभात् । "इयरा ण" ति देशसंयमे प्रोक्तेतरोत्पाद-गमनागमनकृता द्विविधा स्पर्शना न भवति । "सासाणे" त्ति सासादनमार्गणास्थाने क्रमश: "अट्ठ" इत्यादि, गमनागमनादष्टौ भागाः, उपपातत एकादश भागाः, समृद्घाताच्च द्वादश भागास्त्रसनाडेर्घनरज्जुरूपाः स्पर्शना भवति । तत्राष्टौ प्रागिव देवकृता, एकादश तु षष्ठनिरयतस्तिर्यक्तयोत्पद्यमाननारककृताऽधोलोकसम्बन्धिनी पञ्च रज्जव ऊर्ध्वलोकसम्बन्धिनी च शेषा तिर्यक्तयोत्पद्यमानाऽच्युतकल्पगतसहस्रारान्तदेवकृतेति । समुद्घातकृता द्वादश भागास्तु अनन्तरोक्तनीत्या तिर्यक्तयोत्पित्सुषष्ठनारककृता पञ्च भागा ईषत्प्राग्भारापृथिव्यामेकेन्द्रियतयोत्पित्सुभिर्भवनपत्यादिदेवैः कृता सप्तभागा चेति कृत्वेति ॥२९॥
__ अथ वैमानिकदेवादिजीवानां स्थानादिविषयकमतभेदकृतामपि त्रिविधस्पर्शनां संजिघृक्षुरेकामा-माह